🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 4

Sarga 4

32 verses

Verse 1
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा
Verse 2
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत
Verse 3
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः
Verse 4
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया
Verse 5
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि रावणस्य  पुत्रेभ्यः किं नु ते बलवत्तराः
Verse 6
 एषां पूर्वको ब्रह्मन्किन्नामा  बलोत्कटः अपराधं  कं प्राप्य विष्णुना द्राविताः कथम्
Verse 7
एतद्विस्तरतः सर्वं कथयस्व ममानघ कुतूहलमिदं मह्यं नुद भानुर्यथा तमः
Verse 8
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम्
Verse 9
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः
Verse 10
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः
Verse 11
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः
Verse 12
रक्षामेति  तत्रान्ये जक्षाम इति चापरे भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत्
Verse 13
रक्षामेति  यैरुक्तं राक्षसास्ते भवन्तु वः जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः
Verse 14
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ मधुकैटभसङ्काशौ बभूवतुररिन्दमौ
Verse 15
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत्
Verse 16
 कालभगिनीं कन्यां भयां नाम भयावहाम् उदावहदमेयात्मा स्वयमेव महामतिः
Verse 17
 तस्यां जनयामास हेती राक्षसपुङ्गवः पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम्
Verse 18
विद्युत्केशो हेतिपुत्रः  दीप्तार्कसमप्रभः व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः
Verse 19
 यदा यौवनं भद्रमनुप्राप्तो निशाचरः ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता
Verse 20
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः
Verse 21
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव
Verse 22
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः रमते स्म तया सार्धं पौलोम्या मघवानिव
Verse 23
केनचित्त्वथ कालेन राम सालकटङ्कटा विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात्
Verse 24
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम्
Verse 25
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम्
Verse 26
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः तयोत्सृष्टः  तु शिशुः शरदर्कसमद्युतिः निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा
Verse 27
ततो वृषभमास्थाय पार्वत्या सहितः शिवः वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम्
Verse 28
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः
Verse 29
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः
Verse 30
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया उमयापि वरो दत्तो राक्षसानां नृपात्मज
Verse 31
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव  सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम्
Verse 32
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा
0:000:00
Speed: