Book 7 • Chapter 5
Sarga 5
47 verses
Verse 1
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः
Verse 2
तस्य देववती नाम द्वितीया श्रीरिवात्मजा त्रिषु लोकेषु विख्याता रूपयौवनशालिनी तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा
Verse 3
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः
Verse 4
स तया सह संयुक्तो रराज रजनीचरः अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः
Verse 5
देववत्यां सुकेशस्तु जनयामास राघव
Verse 6
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः
Verse 7
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः
Verse 8
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव
Verse 9
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः
Verse 10
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम विचेरुस्ते तपो घोरं सर्वभूतभयावहम्
Verse 11
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान्
Verse 12
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत
Verse 13
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः
Verse 14
तपसाराधितो देव यदि नो दिशसे वरम् अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः
Verse 15
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः
Verse 16
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः
Verse 17
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः
Verse 18
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः
Verse 19
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम
Verse 20
ओजस्तेजोबलवतां महतामात्मतेजसा गृहकर्ता भवानेव देवानां हृदयेप्सितम्
Verse 21
अस्माकमपि तावत्त्वं गृहं कुरु महामते हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्
Verse 22
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः निवासं कथयामास शक्रस्येवामरावतीम्
Verse 23
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः
Verse 24
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि
Verse 25
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता स्वर्णप्राकारसंवीता हेमतोरणसंवृता
Verse 26
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः
Verse 27
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः
Verse 28
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः
Verse 29
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम्
Verse 30
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः
Verse 31
एतस्मिन्नेव काले तु यथाकामं च राघव नर्मदा नाम गन्धर्वी बभूव रघुनन्दन
Verse 32
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी
Verse 33
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः
Verse 34
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते कुतदारास्तु ते राम सुकेशतनयास्तदा
Verse 35
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी
Verse 36
स तस्यां जनयामास यदपत्यं निबोध तत् वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः
Verse 37
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी
Verse 38
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी
Verse 39
सुमाली जनयामास यदपत्यं निशाचरः केतुमत्यां महाराज तन्निबोधानुपूर्वशः
Verse 40
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः
Verse 41
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः
Verse 42
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः
Verse 43
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा
Verse 44
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो अपत्यं कथ्यमानं तु मया त्वं शृणु राघव
Verse 45
अनिलश्चानलश्चैव हरः सम्पातिरेव च एते विभीषणामात्या मालेयास्तु निशाचरः
Verse 46
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः
Verse 47
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा
0:000:00
Speed: