Book 7 • Chapter 6
Sarga 6
69 verses
Verse 1
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्
Verse 2
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् आधारं सर्वलोकानामाराध्यं परमं गुरुम्
Verse 3
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः
Verse 4
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः
Verse 5
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत्
Verse 6
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम्
Verse 7
इति माली सुमाली च माल्यवांश्चैव राक्षसाः बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः तन्नो देव भयार्तानामभयं दातुमर्हसि
Verse 8
अशिवं वपुरास्थाय जहि वै देवकण्टकान्
Verse 9
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः
Verse 10
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति
Verse 11
एतमेव समुद्योगं पुरस्कृत्य महर्षयः गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः
Verse 12
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः
Verse 13
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति
Verse 14
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः आक्रम्य वरदानेन स्थानान्यपहृतानि नः
Verse 15
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः
Verse 16
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर
Verse 17
चक्रकृत्तास्यकमलान्निवेदय यमाय वै भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना
Verse 18
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् नुदं त्वं नो भयं देव नीहारमिव भास्करः
Verse 19
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह
Verse 20
सुकेशं राक्षसं जाने ईशानवरदर्पितम् तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान्
Verse 21
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः
Verse 22
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम्
Verse 23
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्
Verse 24
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन्
Verse 25
सुकेशतनया देव वरदानबलोद्धताः बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे
Verse 26
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम्
Verse 27
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर
Verse 28
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः शिरः करं च धुन्वान इदं वचनमब्रवीत्
Verse 29
अवध्या मम ते देवाः सुकेशतनया रणे मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति
Verse 30
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ
Verse 31
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन्
Verse 32
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः
Verse 33
देवानां भयभीतानां हरिणा राक्षसर्षभौ प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम्
Verse 34
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः
Verse 35
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः
Verse 36
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः
Verse 37
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः
Verse 38
नारायणेन निहताः शतशो ऽथ सहस्रशः एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ
Verse 39
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम्
Verse 40
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि
Verse 41
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम्
Verse 42
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा
Verse 43
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर देवानामेव दोषेण विष्णोः प्रचलितं मनः
Verse 44
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः देवानेव जिघांसाम एभ्यो दोषः समुत्थितः
Verse 45
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव
Verse 46
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः युद्धाय निर्ययुः सर्वे महाकाया महाबलाः
Verse 47
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः
Verse 48
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि
Verse 49
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः प्रयाता देवलोकाय योद्धुं दैवतशत्रवः
Verse 50
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ भूतानि भयदर्शीनि विमनस्कानि सर्वशः
Verse 51
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः
Verse 52
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः रक्षसामेव मार्गेण दैवतान्यपचक्रमुः
Verse 53
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः
Verse 54
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः
Verse 55
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः
Verse 56
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः
Verse 57
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् कपोता रक्तपादाश्च शारिका विद्रुता ययुः काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः
Verse 58
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः
Verse 59
माल्यवांश्च सुमाली च माली च सुमहाबलाः आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः
Verse 60
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् निशाचरा ह्याश्रयन्ति धातारमिव देवताः
Verse 61
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् जयेप्सया देवलोकं ययौ मालिवशे स्थितम्
Verse 62
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः
Verse 63
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति
Verse 64
आबध्य शरसम्पूर्णे इषुधी विमले तदा श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान्
Verse 65
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः राक्षसानामभावाय ययौ तूर्णतरं प्रभुः
Verse 66
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा
Verse 67
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः
Verse 68
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः
Verse 69
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः
0:000:00
Speed: