🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 7

Sarga 7

55 verses

Verse 1
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः
Verse 2
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः
Verse 3
शलभा इव केदारं मशका इव पर्वतम् यथामृतघटं दंशा मकरा इव चार्णवम्
Verse 4
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः हरिं विशन्ति स्म शरा लोका इव विपर्यये
Verse 5
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः
Verse 6
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम्
Verse 7
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान्
Verse 8
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः
Verse 9
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः
Verse 10
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव
Verse 11
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् मृगराज इवारण्ये समदानिव कुञ्जरान्
Verse 12
 शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः
Verse 13
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम्
Verse 14
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः निपेतू राक्षसा भूमौ शैला वज्रहता इव
Verse 15
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः
Verse 16
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः
Verse 17
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि  रथान्पताकास्तूणीरांश्चिच्छेद  हरिः शरैः
Verse 18
सूर्यादिव करा घोरा ऊर्मयः सागरादिव पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात्
Verse 19
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः
Verse 20
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा
Verse 21
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा मार्जारेण यथा सर्पाः सर्पेण  यथा  ऽखवः
Verse 22
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले
Verse 23
राक्षसानां सहस्राणि निहत्य मधुसूदनः वारिजं पूरयामास तोयदं सुरराडिव
Verse 24
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम्
Verse 25
प्रभग्ने राक्षसबले नारायणशराहते सुमाली शरवर्षेण निववार रणे हरिम्
Verse 26
 तु तं छादयामास नीहार इव भास्करम् राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः
Verse 27
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव
Verse 28
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ररास राक्षसो हर्षात्सतडित्तोयदो यथा
Verse 29
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः
Verse 30
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः
Verse 31
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति
Verse 32
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव
Verse 33
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः चुक्षुभे  रणे विष्णुर्जितेन्द्रिय इवाधिभिः
Verse 34
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः
Verse 35
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः पिबन्ति रुधिरं तस्य नागा इव सुधारसम्
Verse 36
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत्
Verse 37
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी
Verse 38
गदया गरुडेशानमीशानमिव चान्तकः ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम्
Verse 39
गदयाभिहतस्तेन मालिना गरुडो भृशम् रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः
Verse 40
पराङ्मुखे कृते देवे मालिना गरुडेन वै उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम्
Verse 41
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः
Verse 42
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया
Verse 43
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः कालचक्रनिभं चक्रं मालेः शीर्षमपातयत्
Verse 44
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् पपात रुधिरोद्गारि पुरा राहुशिरो यथा
Verse 45
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः
Verse 46
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ
Verse 47
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा राक्षसान्द्रावयामास पक्षवातेन कोपितः
Verse 48
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः
Verse 49
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि
Verse 50
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः
Verse 51
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव
Verse 52
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम्
Verse 53
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः
Verse 54
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः
Verse 55
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः
0:000:00
Speed: