Book 7 • Chapter 8
Sarga 8
30 verses
Verse 1
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः
Verse 2
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम्
Verse 3
नारायण न जानीषे क्षात्रधर्मं पुरातनम् अयुद्धमनसो भीतानस्मान्हंसि यथेतरः
Verse 4
पराङ्मुखवधं पापं यः करोत्यसुरेतरः स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम्
Verse 5
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर 4अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव
Verse 6
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् उवाच राक्षसेन्द्रं तं देवराजानुजो बली
Verse 7
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते
Verse 8
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया सो ऽहं वो निहनिष्यामि रसातलगतानपि
Verse 9
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे
Verse 10
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना हरेरुरसि बभ्राज मेघस्थेव शतह्रदा
Verse 11
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः
Verse 12
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम्
Verse 13
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः
Verse 14
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः
Verse 15
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम्
Verse 16
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः
Verse 17
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत्
Verse 18
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा
Verse 19
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ
Verse 20
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः
Verse 21
एवं ते राक्षसा तेन हरिणा कमलेक्षण बहुशः संयुगे भग्ना हतप्रवरनायकाः
Verse 22
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः
Verse 23
सुमालिनं समासाद्य राक्षसं रघुसत्तम स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे
Verse 24
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः सुमाली माल्यवान्माली ये च तेषां पुरःसराः
Verse 25
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः
Verse 26
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ऋते नारायणं देवं शङ्खचक्रगदाधरम्
Verse 27
भवान्नारायणो देवश्चतुर्बाहुः सनातनः राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः
Verse 28
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः उत्पद्यते दस्युवधे शरणागतवत्सलः
Verse 29
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम्
Verse 30
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः
0:000:00
Speed: