Book 7 • Chapter 9
Sarga 9
48 verses
Verse 1
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः रसातलान्मर्त्यलोकं सर्वं वै विचचार ह
Verse 2
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्
Verse 3
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्
Verse 4
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम्
Verse 5
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः इत्येवं चिन्तयामास राक्षसानां महामतिः
Verse 6
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः
Verse 7
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे
Verse 8
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
Verse 9
न ज्ञायते च कः कन्यां वरयेदिति कन्यके
Verse 10
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके मातुः कुलं पितृकुलं यत्र चैव प्रदीयते कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति
Verse 11
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्
Verse 12
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः
Verse 13
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते
Verse 14
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः
Verse 15
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी
Verse 16
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा
Verse 17
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने
Verse 18
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम्
Verse 19
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि
Verse 20
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्
Verse 21
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता
Verse 22
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्
Verse 23
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः
Verse 24
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि
Verse 25
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम्
Verse 26
पश्चिमो यस्तव सुतो भविष्यति शुभानने मम वंशानुरूपः स धर्मात्मा च भविष्यति
Verse 27
एवमुक्ता तु सा कन्या राम कालेन केनचित् जनयामास बीभत्सं रक्षोरूपं सुदारुणम्
Verse 28
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्
Verse 29
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः
Verse 30
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि
Verse 31
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः
Verse 32
अथ नामाकरोत्तस्य पितामहसमः पिता दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति
Verse 33
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते
Verse 34
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः
Verse 35
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह
Verse 36
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा
Verse 37
तौ तु तत्र महारण्ये ववृधाते महौजसौ कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा
Verse 38
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह
Verse 39
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः स्वाध्यायनियताहार उवास विजितेन्द्रियः
Verse 40
अथ वैश्रवणो देवस्तत्र कालेन केनचित् आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः
Verse 41
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा आगम्य राक्षसी तत्र दशग्रीवमुवाच ह
Verse 42
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम्
Verse 43
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः
Verse 44
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा
Verse 45
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम्
Verse 46
ततस्तेनैव कोपेन दशग्रीवः सहानुजः चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः
Verse 47
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्
Verse 48
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान्
0:000:00
Speed: