Book 7 • Chapter 10
Sarga 10
49 verses
Verse 1
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः
Verse 2
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन्
Verse 3
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः
Verse 4
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः
Verse 5
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च
Verse 6
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्
Verse 7
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः
Verse 8
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः
Verse 9
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने दशवर्षसहस्राणि गतानि नियतात्मनः
Verse 10
दशवर्षसहस्रं तु निराहारो दशाननः पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः
Verse 11
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम्
Verse 12
अथ वर्षसहस्रे तु दशमे दशमं शिरः छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः
Verse 13
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत
Verse 14
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः कं ते कामं करोम्यद्य न वृथा ते परिश्रमः
Verse 15
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना प्रणम्य शिरसा देवं हर्षगद्गदया गिरा
Verse 16
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे
Verse 17
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे
Verse 18
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः
Verse 19
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत
Verse 20
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित तृणभूता हि ते मन्ये प्राणिनो मानुषादयः
Verse 21
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा उवाच वचनं देवः सह देवैः पितामहः
Verse 22
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव एवमुक्त्वा तु तं राम दशग्रीवं पितामहः
Verse 23
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ
Verse 24
पुनस्तानि भविष्यन्ति तथैव तव राक्षस वितरामीह ते सौम्य वरं चान्यं दुरासदम्
Verse 25
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् भविष्यति न सन्देहो मद्वरात्तवराक्षस
Verse 26
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै
Verse 27
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः विभीषणमथोवाच वाक्यं लोकपितामहः
Verse 28
विभीषण त्वया वत्स धर्मसंहितबुद्धिना परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत
Verse 29
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा
Verse 30
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत
Verse 31
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे
Verse 32
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये
Verse 33
एष मे परमोदार वरः परमको मतः नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम्
Verse 34
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति
Verse 35
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन नाधर्मे जायते बुद्धिरमरत्वं ददामि ते
Verse 36
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन्
Verse 37
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः
Verse 38
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा
Verse 39
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम्
Verse 40
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः
Verse 41
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती
Verse 42
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती इयमस्म्यागता देव किं कार्यं करवाण्यहम्
Verse 43
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता
Verse 44
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् कुम्भकर्ण महाबाहो वरं वरय यो मतः
Verse 45
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्
Verse 46
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् देवी सरस्वती चैव राक्षसं तं जहौ पुनः
Verse 47
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः
Verse 48
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम्
Verse 49
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम्
0:000:00
Speed: