Book 7 • Chapter 11
Sarga 11
52 verses
Verse 1
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात्
Verse 2
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः
Verse 3
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत्
Verse 4
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम्
Verse 5
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्
Verse 6
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्
Verse 7
अस्मदीया च लङ्केयं नगरी राक्षसोचिता निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता
Verse 8
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्
Verse 9
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल
Verse 10
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम्
Verse 11
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम्
Verse 12
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
Verse 13
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम्
Verse 14
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम
Verse 15
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः
Verse 16
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान्
Verse 17
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः
Verse 18
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना देवानां वशमानीतं त्रैलोक्यमिदमव्ययम्
Verse 19
नैतदेको भवानेव करिष्यति विपर्ययम् सुरासुरैराचरितं तत्कुरुष्व वचो मम
Verse 20
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत्
Verse 21
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् वनं गतो दशग्रीवः सह तैः क्षणदाचरैः
Verse 22
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम्
Verse 23
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् वचसा मम वित्तेशं सामपूर्वमिदं वचः
Verse 24
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ
Verse 25
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः
Verse 26
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् अब्रवीत्परमोदारं वित्तपालमिदं वचः
Verse 27
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर
Verse 28
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद वचनं मम वित्तेश यद्ब्रवीति दशाननः
Verse 29
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः
Verse 30
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज तदेषा दीयतां तात याचतस्तस्य सामतः
Verse 31
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः
Verse 32
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः
Verse 33
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम्
Verse 34
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्
Verse 35
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् एष तात दशग्रीवो दूतं प्रेषितवान्मम
Verse 36
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत
Verse 37
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम
Verse 38
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः
Verse 39
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम
Verse 40
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः
Verse 41
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः
Verse 42
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका
Verse 43
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः
Verse 44
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः
Verse 45
न हि क्षमं तवानेन वैरं धनद रक्षसा जानीषे हि यथा ऽनेन लब्धः परमको वरः
Verse 46
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् सदारपुत्रः सामान्यः सवाहनधनो गतः
Verse 47
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम्
Verse 48
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय
Verse 49
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः
Verse 50
धनदेन परित्यक्तां सुविभक्तमहापथाम् आरुरोह स देवारिः स्वर्गं देवाधिपो यथा
Verse 51
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः
Verse 52
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम्
0:000:00
Speed: