Book 7 • Chapter 12
Sarga 12
32 verses
Verse 1
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्
Verse 2
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः
Verse 3
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् तत्रापश्यत्ततो राम मयं नाम दितेः सुतम्
Verse 4
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः अपृच्छत्को भवानेको निर्मनुष्यमृगे वने अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि
Verse 5
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम
Verse 6
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः
Verse 7
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् सा च दैवतकार्येण त्रयोदश समा गताः
Verse 8
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् वज्रवैडूर्यचित्रं च मायया निर्मितं मया
Verse 9
तत्राहमवसं दीनस्तया हीनः सुदुःखितः
Verse 10
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता
Verse 11
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
Verse 12
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह
Verse 13
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः
Verse 14
त्वामिदानीं कथं तात जानीयां को भवानिति एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत्
Verse 15
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत्
Verse 16
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः दातुं दुहितरं तस्मै रोचयामास यत्र वै
Verse 17
करेण तु करं तस्या ग्राहयित्वा मयस्तदा प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः
Verse 18
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम्
Verse 19
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम्
Verse 20
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम्
Verse 21
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया
Verse 22
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत्
Verse 23
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत्
Verse 24
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः
Verse 25
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि सरस्तदा मानसं तु ववृधे जलदागमे
Verse 26
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत्
Verse 27
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने
Verse 28
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् स एष इन्द्रजिन्नाम युष्माभिरभिधीयते
Verse 29
जातमात्रेण हि पुरा तेन रावणसूनुना रुदता सुमहान्मुक्तो नादो जलधरोपमः
Verse 30
जडीकृता च सा लङ्का तस्य नादेन राघव पिता तस्याकरोन्नाम मेघनाद इति स्वयम्
Verse 31
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः
Verse 32
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः
0:000:00
Speed: