Book 7 • Chapter 13
Sarga 13
42 verses
Verse 1
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी
Verse 2
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः निद्रा मां बाधते राजन्कारयस्व ममालयम्
Verse 3
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्
Verse 4
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्
Verse 5
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्
Verse 6
मनोहरं सर्वसुखं कारयामास राक्षसः सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव
Verse 7
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते
Verse 8
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः
Verse 9
उद्यानानि च चित्राणि नन्दनादीनि यानि च तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः
Verse 10
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः
Verse 11
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः
Verse 12
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम्
Verse 13
स गत्वा नगरीं लङ्कामाससाद विभीषणम् मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति
Verse 14
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः सभायां दर्शयामास तमासीनं दशाननम्
Verse 15
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत
Verse 16
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत्
Verse 17
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् उभयोः सदृशं वीर वृत्तस्य च कुलस्य च
Verse 18
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते
Verse 19
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः
Verse 20
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः
Verse 21
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः
Verse 22
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम्
Verse 23
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति
Verse 24
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम्
Verse 25
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम्
Verse 26
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः
Verse 27
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत
Verse 28
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम्
Verse 29
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर
Verse 30
तपसा निर्जितश्चैव सखा भव ममानघ देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम्
Verse 31
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात्
Verse 32
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः
Verse 33
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव
Verse 34
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह
Verse 35
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः
Verse 36
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः महेश्वरसखित्वं तु मूढ श्रावयते किल
Verse 37
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया यदेतावन्मया कालं दूत तस्य तु मर्षितम्
Verse 38
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः
Verse 39
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः
Verse 40
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम्
Verse 41
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम्
Verse 42
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः
0:000:00
Speed: