🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 14

Sarga 14

30 verses

Verse 1
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः महोदरप्रहस्ताभ्यां मारीचशुकसारणैः
Verse 2
धूम्राक्षेण  वीरेण नित्यं समरगृध्नुना वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव
Verse 3
पुराणि  नदीः शैलान्वनान्युपवनानि  अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत्
Verse 4
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम्
Verse 5
यक्षा  शेकुः संस्थातुं प्रमुखे तस्य रक्षसः राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः
Verse 6
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते
Verse 7
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव
Verse 8
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते
Verse 9
 दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः हर्षनादान्बहून्कृत्वा  क्रोधादभ्यधावत
Verse 10
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः तेषां सहस्रमेकैकं यक्षाणां समयोधयन्
Verse 11
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत
Verse 12
 निरुच्छ्वासवत्तत्र वध्यमानो दशाननः वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत
Verse 13
 चकार व्यथां चैव यक्षशस्त्रैः समाहतः महीधर इवाम्भोदैर्धाराशतसमुक्षितः
Verse 14
 दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम्
Verse 15
 कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत्
Verse 16
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः
Verse 17
केचित्समाहता भग्नाः पतिताः समरक्षितौ ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे
Verse 18
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे सीदन्ति  तदा यक्षाः कूला इव जलेन 
Verse 19
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले प्रेक्षतामृषिसङ्घानां  बभूवान्तरं दिवि
Verse 20
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान्
Verse 21
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः
Verse 22
तेन चक्रेण मारीचो विष्णुनेव रणे हतः पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः
Verse 23
ससञ्ज्ञस्तु मुहूर्तेन  विश्रम्य निशाचरः तं यक्षं योधयामास   भग्नः प्रदुद्रुवे
Verse 24
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् मर्यादां प्रतिहाराणां तोरणान्तरमाविशत्
Verse 25
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत्
Verse 26
 वार्यमाणो यक्षेण प्रविवेश निशाचरः यदा तु वारितो राम  व्यतिष्ठत्स राक्षसः
Verse 27
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव
Verse 28
 शैलशिखराभेण तोरणेन समाहतः जगाम  क्षतिं वीरो वरदानात्स्वयम्भुवः
Verse 29
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा
Verse 30
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा
0:000:00
Speed: