🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 15

Sarga 15

45 verses

Verse 1
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत्
Verse 2
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् शरणं भव वीराणां यक्षाणां युद्धशालिनाम्
Verse 3
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत्
Verse 4
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन्
Verse 5
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः
Verse 6
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन्
Verse 7
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे महोदरेण चानिन्द्यं सहस्रमपरं हतम्
Verse 8
क्रुद्धेन  तदा राजन्मारीचेन युयुत्सुना निमेषान्तरमात्रेण द्वे सहस्रे निपातिते
Verse 9
क्व  यक्षार्जवं युद्धं क्व  मायाबलाश्रयम् रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि
Verse 10
धूम्राक्षेण समागम्य माणिभद्रो महारणे मुसलेनोरसि क्रोधात्तडितो   कम्पितः
Verse 11
ततो गदां समाविध्य माणिभद्रेण राक्षसः धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः  पपात 
Verse 12
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः
Verse 13
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः
Verse 14
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम्
Verse 15
ततः संयुध्यमानेन विष्टब्धो  व्यकम्पत तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत
Verse 16
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः शुक्रप्रौष्ठपदाभ्यां  पद्मशङ्खसमावृतः
Verse 17
 दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् उवाच वचनं धीमान्युक्तं पैतामहे कुले
Verse 18
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः
Verse 19
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः  तस्य परिणामान्ते जानीते कर्मणः फलम्
Verse 20
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे
Verse 21
मातरं पितरं यो हि आचार्यं चावमन्यते  पश्यति फलं तस्य प्रेतराजवशं गतः
Verse 22
अध्रुवे हि शरीरे यो  करोति तपोर्जनम्  पश्चात्तप्यते मूढो मृतो दृष्ट्वा  ऽत्मनो गतिम्
Verse 23
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव  तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत्
Verse 24
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना तस्मादात्मापघातार्थं मूढः पापं करिष्यति
Verse 25
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः देवं चेष्टयते सर्वं हतो दैवेन हन्यते यादृशं कुरुते कर्म तादृशं फलमश्नुते
Verse 26
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव  प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः
Verse 27
एवं निरयगामी त्वं यस्य ते मतिरीदृशी  त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः
Verse 28
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः
Verse 29
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना गदयाभिहतो मूर्ध्नि   स्थानात्प्रकम्पितः
Verse 30
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे  विह्वलौ   श्रान्तौ बभूवतुरमर्षणौ
Verse 31
आग्नेयमस्त्रं तस्मै  मुमोच धनदस्तदा राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत्
Verse 32
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः रूपाणां शतसाहस्रं विनाशाय चकार 
Verse 33
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः यक्षो दैत्यस्वरूपी  सो ऽदृश्यत दशाननः
Verse 34
बहूनि  करोति स्म दृश्यन्ते  त्वसौ ततः प्रतिगृह्य ततो राम महदस्त्रं दशाननः
Verse 35
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् एवं  तेनाभिहतो विह्वलः शोणितोक्षितः
Verse 36
कृत्तमूल इवाशोको निपपात धनाधिपः
Verse 37
ततः पद्मादिभिस्तत्र निधिभिः  तदा वृतः धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम्
Verse 38
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः पुष्पकं तस्य जग्राह विमानं जयलक्षणम्
Verse 39
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम्
Verse 40
मनोजवं कामगमं कामरूपं विहङ्गमम् मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम्
Verse 41
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम्
Verse 42
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम्  तु शीतं  चोष्णं  सर्वर्तुसुखदं शुभम्
Verse 43
 तं राजा समारुह्य कामगं वीर्यनिर्जितम् जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः
Verse 44
जित्वा वैश्रवणं देवं कैलासात्समवातरत्
Verse 45
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः
0:000:00
Speed: