Book 7 • Chapter 16
Sarga 16
50 verses
Verse 1
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः महासेनप्रसूतिं तद्ययौ शरवणं महत्
Verse 2
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् गभस्तिजालसंवीतं द्वितीयमिव भास्करम्
Verse 3
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा
Verse 4
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः
Verse 5
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत्
Verse 6
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति
Verse 7
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम्
Verse 8
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली
Verse 9
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः
Verse 10
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम्
Verse 11
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः
Verse 12
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः
Verse 13
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम्
Verse 14
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः प्रहासं मुमुचे तत्र सतोय इव तोयदः
Verse 15
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम्
Verse 16
यस्माद्वानररूपं मामवज्ञाय दशानन अशनीपातसङ्काशमपहासं प्रमुक्तवान्
Verse 17
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः
Verse 18
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः
Verse 19
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च
Verse 20
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः
Verse 21
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता
Verse 22
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः पर्वतं तु समासाद्य वाक्यमाह दशाननः
Verse 23
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः तमिमं शैलमुन्मूलं करोमि तव गोपते
Verse 24
केन प्रभावेण भवो नित्यं क्रीडति राजवत् विज्ञातव्यं न जानीते भयस्थानमुपस्थितम्
Verse 25
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते तोलयामास तं शीघ्रं स शैलं समकम्पत
Verse 26
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम्
Verse 27
ततो राम महादवो देवानां प्रवरो हरः पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया
Verse 28
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः
Verse 29
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम्
Verse 30
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः
Verse 31
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन्
Verse 32
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् तोषयस्व महादेवं नीलकण्ठमुमापतिम्
Verse 33
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज
Verse 34
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम्
Verse 35
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः संवत्सरसहस्रं तु रुदतो रक्षसो गतम्
Verse 36
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम्
Verse 37
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः
Verse 38
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि
Verse 39
देवता मानुषा यक्षा ये चान्ये जगतीतले एवं त्वामभिधास्यन्ति रावणं लोकरावणम्
Verse 40
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम्
Verse 41
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् प्रीतो यदि महादेव वरं मे देहि याचतः
Verse 42
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः
Verse 43
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक
Verse 44
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे एवमुक्तस्ततस्तेन रावणेन स शङ्करः
Verse 45
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा
Verse 46
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः
Verse 47
एवं महेश्वरेणैव कृतनामा स रावणः अभिवाद्य महादेवमारुरोहाथ पुष्पकम्
Verse 48
ततो महीतले राम पर्यक्रामत रावणः क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः
Verse 49
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः
Verse 50
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम्
0:000:00
Speed: