Book 7 • Chapter 17
Sarga 17
44 verses
Verse 1
अथ राजन्महाबाहुर्विचरन्स महीतले हिमवद्वनमासाद्य परिचक्राम रावणः
Verse 2
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव
Verse 3
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् काममोहपरीतात्मा पप्रच्छ प्रहसन्निव
Verse 4
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया
Verse 5
रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः
Verse 6
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि
Verse 7
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः एवमुक्ता तु सा कन्या रावणेन यशस्विनी
Verse 8
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः
Verse 9
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता
Verse 10
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे
Verse 11
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ कारणं तद्वदिष्यामि निशाचर निशामय
Verse 12
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता
Verse 13
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत्
Verse 14
तेन रात्रौ शयानो मे पिता पापेन हिंसितः
Verse 15
ततो मे जननी दीना तच्छरीरं पितुर्मम परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम्
Verse 16
ततो मनोरथं सत्यं पितुर्नारायणं प्रति करोमीति तमेवाहं हृदयेन समुद्वहे
Verse 17
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव
Verse 18
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् आश्रये नियमं घोरं नारायणपरीप्सया विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन
Verse 19
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते
Verse 20
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः
Verse 21
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः
Verse 22
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते
Verse 23
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम्
Verse 24
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे वीर्येण तपसा चैव भोगेन च बलेन च
Verse 25
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने
Verse 26
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत्
Verse 27
वै भोगेन च बलेन च मा मैवमिति सा कन्या तमुवाच निशाचरम् त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान्
Verse 28
एवमुक्तस्तया तत्र वेदवत्या निशाचरः मूर्धजेषु तदा कन्यां कराग्रेण परामृशत्
Verse 29
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत्
Verse 30
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् उवाचाग्निं समाधाय मरणाय कृतत्वरा
Verse 31
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम्
Verse 32
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः
Verse 33
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्
Verse 34
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता
Verse 35
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः
Verse 36
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा
Verse 37
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे
Verse 38
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते
Verse 39
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा
Verse 40
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती सैषा जनकराजस्य प्रसूता तनया प्रभो तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः
Verse 41
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा उपाश्रयित्वा शैलभस्तव वीर्यममानुषम्
Verse 42
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा
Verse 43
एषा वेदवती नाम पूर्वमासीत्कृते युगे त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः
Verse 44
उत्पन्ना मैथिलकुले जनकस्य महात्मनः सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते
0:000:00
Speed: