Book 7 • Chapter 18
Sarga 18
36 verses
Verse 1
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः पुष्पकं तु समारुह्य परिचक्राम मेदिनीम्
Verse 2
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः उशीरबीजमासाद्य ददर्श स तु रावणः
Verse 3
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः
Verse 4
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः
Verse 5
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत्
Verse 6
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः
Verse 7
तं च राजानमासाद्य रावणो राक्षसाधिपः प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद
Verse 8
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत्
Verse 9
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव धनदस्यानुजं यो मां नावगच्छसि रावणम्
Verse 10
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत्
Verse 11
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते
Verse 12
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात्
Verse 13
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम्
Verse 14
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्
Verse 15
ततः शरासनं गृह्य सायकांश्च नराधिपः रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत्
Verse 16
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः
Verse 17
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्
Verse 18
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः
Verse 19
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत्
Verse 20
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान्
Verse 21
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम्
Verse 22
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन्
Verse 23
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम्
Verse 24
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः
Verse 25
नीलाः किल पुरा बर्हा मयूराणां नराधिप सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः
Verse 26
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु
Verse 27
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः
Verse 28
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि
Verse 29
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः
Verse 30
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर
Verse 31
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः भविष्यति तवोदग्रः शुद्धफेनसमप्रभः
Verse 32
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम्
Verse 33
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः
Verse 34
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम्
Verse 35
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति
Verse 36
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः
0:000:00
Speed: