Book 7 • Chapter 19
Sarga 19
32 verses
Verse 1
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः
Verse 2
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति
Verse 3
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते
Verse 4
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः
Verse 5
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः
Verse 6
अथायोध्यां समासाद्य रावणो राक्षसाधिपः
Verse 7
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् स तं पुरुषशार्दूलं पुरन्दरसमं बले
Verse 8
प्राह राजानमासाद्य युद्धं देहीति रावणः निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम्
Verse 9
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत्
Verse 10
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम्
Verse 11
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम्
Verse 12
नागानां दशसाहस्रं वाजिनां नियुतं तथा रथानां बहुसाहस्रं पत्तीनां च नरोत्तम
Verse 13
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद
Verse 14
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् तद्रावणबलं प्राप्य बलं तस्य महीपतेः
Verse 15
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम्
Verse 16
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् नश्यति स्म बलं तत्र हव्यं हुतमिवानले
Verse 17
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् महार्णवं समासाद्य वनापगशतं यथा
Verse 18
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः
Verse 19
अनरण्येन ते ऽमात्या मारीचशुकसारणाः प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव
Verse 20
ततो बाणशतान्यष्टौ पातयामास मूर्धनि तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः
Verse 21
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि
Verse 22
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह
Verse 23
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः वज्रदग्ध इवारण्ये सालो निपतितो यथा
Verse 24
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता
Verse 25
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम
Verse 26
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः
Verse 27
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान्
Verse 28
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः
Verse 29
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस यदि दत्तं यदि हुतं यदि मे सुकृतं तपः यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे
Verse 30
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति
Verse 31
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता
Verse 32
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत
0:000:00
Speed: