Book 7 • Chapter 20
Sarga 20
33 verses
Verse 1
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः आससाद घने तस्मिन्नारदं मुनिपुङ्गवम्
Verse 2
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च
Verse 3
नारदस्तु महातेजा देवर्षिरमितप्रभः अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम्
Verse 4
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव
Verse 5
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः त्वया समं विमर्दैश्च भृशं हि परितोषितः
Verse 6
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम तन्मे निगदतस्तात समाधिं श्रवणे कुरु
Verse 7
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः हत एव ह्ययं लोको यदा मृत्युवशं गतः ्तम
Verse 8
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः
Verse 9
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम्
Verse 10
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत्
Verse 11
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा
Verse 12
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः
Verse 13
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः
Verse 14
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते
Verse 15
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् जित एव त्वया सौम्य मर्त्यलोको न संशयः
Verse 16
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय
Verse 17
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च
Verse 18
महर्षे देवगन्धर्वविहार समरप्रिय अहं समुद्यतो गन्तुं विजयार्थं रसातलम्
Verse 19
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे समुद्रममृतार्थं च मथिष्यामि रसालयम्
Verse 20
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते
Verse 21
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन
Verse 22
स तु शारदमेघाभं हासं मुक्त्वा दशाननः उवाच कृतमित्येव वचनं चेदमब्रवीत्
Verse 23
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः
Verse 24
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना अवजेष्यामि चतुरो लोकपालानिति प्रभो
Verse 25
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना
Verse 26
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः
Verse 27
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः चिन्तयामास विप्रेन्द्रो विधूम इव पावकः
Verse 28
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम्
Verse 29
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः
Verse 30
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति
Verse 31
यो विधाता च धाता च सुकृतं दुष्कृतं तथा त्रैलोक्यं विजितं येन तं कथं विजयिष्यते
Verse 32
अपरं किन्तु कृत्वायं विधानं संविधास्यति कौतूहलसमुत्पन्नो यास्यामि यमसादनम्
Verse 33
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम्
0:000:00
Speed: