Book 7 • Chapter 21
Sarga 21
46 verses
Verse 1
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति
Verse 2
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम्
Verse 3
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः
Verse 4
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति किमागमनकृत्यं ते देवगन्धर्वसेवित
Verse 5
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः श्रूयतामभिधास्यामि विधानं च विधीयताम्
Verse 6
एष नाम्नो दशग्रीवः पितृराज निशाचरः उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्
Verse 7
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो दण्डप्रहरणस्याद्य तव किं नु भविष्यति
Verse 8
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः
Verse 9
तं देशं प्रभया तस्य पुष्पकस्य महाबलः कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत
Verse 10
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम्
Verse 11
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः
Verse 12
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः क्रोशतश्च महानादं तीव्रनिष्टनतत्परान्
Verse 13
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः
Verse 14
क्षोत्रायासकरा वाचो वदतश्च भयावहाः सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम्
Verse 15
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः असिपत्रवने चैव भिद्यमानानधार्मिकान्
Verse 16
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि पानीयं याचमानांश्च तृषितान्क्षुधितानपि
Verse 17
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः
Verse 18
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः
Verse 19
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः गृहांश्च गृहदातारः स्वकर्मफलमश्नतः
Verse 20
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान्
Verse 21
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ददर्श सुमहाबाहू रावणो राक्षसाधिपः
Verse 22
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः रावणो मोचयामास विक्रमेण बलाद्बली
Verse 23
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम्
Verse 24
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन्
Verse 25
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः धर्मराजस्य योधानां शूराणां सम्प्रधावताम्
Verse 26
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः पुष्पकं समवर्षन्त शूराः शतसहस्रशः
Verse 27
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव
Verse 28
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा
Verse 29
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः शूराणामग्रयातऽणां सहस्राणि शतानि च
Verse 30
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ततस्ते सचिवास्तस्य यथाकामं यथाबलम् अयुध्यन्त महावीराः स च राजा दशाननः
Verse 31
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत्
Verse 32
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् यमस्य च महाबाहो रावणस्य च मन्त्रिणः
Verse 33
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम्
Verse 34
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः
Verse 35
स तु शूलगदापासाञ्छक्तितोमरसायकान् मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली
Verse 36
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् यमसैन्येषु तद्वर्षं पपात धरणीतले
Verse 37
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः
Verse 38
परिवार्य च तं सर्वे शैलं मोघोत्करा इव भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन्
Verse 39
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत
Verse 40
ततः स कार्मुकी वाणी समरे चाभिवर्तत लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः
Verse 41
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स
Verse 42
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा
Verse 43
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः
Verse 44
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति
Verse 45
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु रणे तस्मिन्निपतिता दावदग्धा नगा इव
Verse 46
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ननाद सुमहानादं कम्पयन्निव मेदिनीम्
0:000:00
Speed: