🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 22

Sarga 22

51 verses

Verse 1
 तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः शत्रुं विजयिनं मेने स्वबलस्य  सङ्क्षयम्
Verse 2
 हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम्
Verse 3
तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् स्थितः   महातेजा ह्यध्यारोहत तं रथम् प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः
Verse 4
येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत्
Verse 5
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः
Verse 6
पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः
Verse 7
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम्
Verse 8
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः
Verse 9
मुहूर्तेन यमं ते तु हया हरिहयोपमाः प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम्
Verse 10
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः
Verse 11
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः
Verse 12
 तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् नाक्षुभ्यत दशग्रीवो  चापि भयमाविशत्
Verse 13
 तु रावणमासाद्य व्यसृजच्छक्तितोमरान् यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत
Verse 14
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच  तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः
Verse 15
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) नाशक्नोत्प्रतिकर्तुं  राक्षसः शल्यपीडितः
Verse 16
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः
Verse 17
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः
Verse 18
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम्
Verse 19
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा राक्षसानां  मुख्यस्य प्रेतानामीश्वरस्य 
Verse 20
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत्
Verse 21
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत्
Verse 22
ततः क्रुद्धस्य वदनाद्यमस्य समजायत ज्वालामाली सनिःश्वासः सधूमः कोपपावकः
Verse 23
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः
Verse 24
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः
Verse 25
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि 
Verse 26
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव  राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः
Verse 27
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः युगान्तपरिवर्ते  पृथिवी समहार्णवा
Verse 28
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा एते चान्ये  बहवो बलवन्तो दुरासदाः
Verse 29
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः
Verse 30
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् नहि कश्चिन्मया दृष्टो बलवानपि जीवति
Verse 31
बलं मम  खल्वेतन्मर्यादैषा निसर्गतः  दृष्टो  मया कालं मुहुर्तमापि जीवति
Verse 32
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम्
Verse 33
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः कालदण्डममोघं तु तोलयामास पाणिना
Verse 34
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः
Verse 35
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः
Verse 36
 ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत्
Verse 37
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम्
Verse 38
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत्
Verse 39
वैवस्वत महाबाहो  खल्वमितविक्रम  हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः
Verse 40
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव  त्वया नानृतः कार्यो यन्मया व्याहृतं वचः
Verse 41
यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः
Verse 42
क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये प्रजाः संहरते रौद्रो लोकत्रयभयावहः
Verse 43
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः
Verse 44
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति
Verse 45
यदि ह्यन्मिन्निपतिते  म्रियेतैष राक्षसः म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम्
Verse 46
तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् सत्यं  मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे
Verse 47
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान्
Verse 48
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि  मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः
Verse 49
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत
Verse 50
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात्
Verse 51
 तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः
0:000:00
Speed: