🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 23

Sarga 23

54 verses

Verse 1
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् रावणस्तु रणश्लाघी स्वसहायान्ददर्श 
Verse 2
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन्
Verse 3
जयेन वर्धयित्वा  मारीचप्रमुखास्ततः पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु
Verse 4
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम्
Verse 5
 तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम्
Verse 6
निवातकवचास्तत्र दैत्या लब्धवरा वसन् राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत्
Verse 7
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः
Verse 8
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा
Verse 9
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः  चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा
Verse 10
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः आजगाम द्रुतं देवो विमानवरमास्थितः
Verse 11
निवातकवचानां तु निवार्य रणकर्म तत् वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्
Verse 12
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः  भवन्तः क्षयं नेतुमपि सामरदानवैः
Verse 13
राक्षसस्य सखित्वं  भवद्भिः सह रोचते अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः
Verse 14
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः निवातकवचैः सार्धं प्रीतिमानभवत्तदा
Verse 15
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः स्वपुरान्निर्विशेषं  प्रियं प्राप्तो दशाननः
Verse 16
ततोपधार्य मायानां शतमेकं समाप्तवान् सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम्
Verse 17
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान्
Verse 18
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा श्यालं  बलवन्तं  विद्युज्जिह्वं बलोत्कटम् जिह्वया संलिहन्तं  राक्षसं समरे तथा
Verse 19
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्
Verse 20
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः
Verse 21
क्षरन्तीं  पयस्तत्र सुरभिं गामवस्थिताम् यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः
Verse 22
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः
Verse 23
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः अमृतं यत्र चोत्पन्नं स्वधा  स्वधभोजिनाम्
Verse 24
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्
Verse 25
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ततो धाराशताकीर्णं शारदाभ्रनिभं तदा नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्
Verse 26
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम्
Verse 27
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् वद वा  भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः
Verse 28
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव 
Verse 29
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः
Verse 30
ततो युद्धं समभवद्दारुणं रोमहर्षणम् सलिलेन्द्रस्य पुत्राणां रावणस्य  धीमतः
Verse 31
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम्
Verse 32
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा अर्दिताः शरजालेन निवृत्ता रणकर्मणः
Verse 33
महीतलगतास्ते तु रावणं दृश्य पुष्पके आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः
Verse 34
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् आकाशयुद्धं तुमुलं देवदानवयोरिव
Verse 35
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान्
Verse 36
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत्
Verse 37
तेन ते दारुणा युद्धे कामगाः पवनोपमाः महोदरेण गदया हता वै प्रययुः क्षितिम्
Verse 38
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान्
Verse 39
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः महोदरेण निहताः पतिताः पृथिवीतले
Verse 40
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः
Verse 41
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्
Verse 42
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम्
Verse 43
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत्
Verse 44
ततस्तेनैव सहसा सीदन्ति स्म पदातयः मुसलानि विचित्राणि ततो भल्लशतानि 
Verse 45
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः
Verse 46
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः
Verse 47
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ननाद रावणो हर्षान्महानम्बुधरो यथा
Verse 48
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः
Verse 49
ततस्ते विमुखाः सर्वे पतिता धरणीतले रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः
Verse 50
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्
Verse 51
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः
Verse 52
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि तत्किं तव वृथा वीर परिश्रम्य गते नृपे ये तु सन्निहिता वीराः कुमारास्ते पराजिताः
Verse 53
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात्
Verse 54
आगतस्तु पथा येन तेनैव विनिवृत्य सः लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ
0:000:00
Speed: