🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 24

Sarga 24

42 verses

Verse 1
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः
Verse 2
दर्शनीयां हि रक्षः  कन्यां स्त्रीं वापि पश्यति हत्वा बन्धुजनं तस्या विमाने तां रुरोध 
Verse 3
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत्
Verse 4
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम्
Verse 5
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः
Verse 6
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन्
Verse 7
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः
Verse 8
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः
Verse 9
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः तासां निश्वासवातेन सर्वतः सम्प्रदीपितम्
Verse 10
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः
Verse 11
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति
Verse 12
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव  दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः
Verse 13
कथं नु खलु मे पुत्रो भविष्यति मया विना कथं माता कथं भ्राता निमग्नाः शोकसागरे
Verse 14
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम्
Verse 15
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम्
Verse 16
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे  खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः
Verse 17
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः यद्दुर्बला बलवता भर्तारो रावणेन नः
Verse 18
सूर्येणोदयता काले नक्षत्राणीव नाशिताः अहो सुबलवद्रक्षो वधोपायेषु युज्यते
Verse 19
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः
Verse 20
इदं त्वसदृशं कर्म परदाराभिमर्शनम् यस्मादेष परक्यासु रमते राक्षसाधमः
Verse 21
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते
Verse 22
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात  शप्तः स्त्रीभिः  तु समं हतौजा इव निष्प्रभः
Verse 23
पतिव्रताभिः साध्वीभिर्बभूव विमना इव एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
Verse 24
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी सहसा पतिता भूमौ भगिनी रावणस्य सा
Verse 25
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम्
Verse 26
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात्
Verse 27
एते राजंस्त्वया वीरा दैत्या विनिहता रणे कालकेया इति ख्याताः सहस्राणि चतुर्दश
Verse 28
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः
Verse 29
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना
Verse 30
राजन्वैधव्यशब्दं  भोक्ष्यामि त्वत्कृते ह्यहम् ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि  त्वया निहतो युद्धे स्वयमेव  लज्जसे
Verse 31
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः
Verse 32
अलं वत्से रुदित्वा ते  भेतव्यं  सर्वशः दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः
Verse 33
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे
Verse 34
जामातरं  जाने स्म प्रहरन्युद्धदुर्मदः तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः
Verse 35
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः
Verse 36
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति प्रभुः प्रयाणे दाने  राक्षसानां महाबलः
Verse 37
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः भविष्यति तवादेशं सदा कुर्वन्निशाचरः
Verse 38
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः
Verse 39
तत्र ते वचनं शूरः करिष्यति सदा खरः रक्षसां कामरूपाणां प्रभुरेष भविष्यति
Verse 40
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश  चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम्
Verse 41
 तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः आगच्छत खरः शीघ्रं दण्डकानकुतोभयः
Verse 42
 तत्र कारयामास राज्यं निहतकण्टकम् सा  शूर्पणखा तत्र न्यवसद्दण्डकावने
0:000:00
Speed: