Book 7 • Chapter 25
Sarga 25
52 verses
Verse 1
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत्
Verse 2
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः
Verse 3
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव
Verse 4
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ददर्श स्वसुतं तत्र मेघनादं भयावहम्
Verse 5
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः
Verse 6
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः
Verse 7
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः
Verse 8
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा
Verse 9
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह
Verse 10
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् मायां च तामसीं नाम यया सम्पद्यते तमः
Verse 11
एतया किल सङ्ग्रामे मायया राक्षसेश्वर प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः
Verse 12
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे
Verse 13
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम्
Verse 14
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः
Verse 15
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति
Verse 16
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः
Verse 17
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत्
Verse 18
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे
Verse 19
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता
Verse 20
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः
Verse 21
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् श्रूयतामस्य पापस्य कर्मणः फलमागतम्
Verse 22
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः
Verse 23
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत्
Verse 24
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा
Verse 25
सा हृता, मधुना राजन्राक्षसेन बलीयसा यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते
Verse 26
कुम्भकर्णे महाराज निद्रामनुभवत्यथ निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान्
Verse 27
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः
Verse 28
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते
Verse 29
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः
Verse 30
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः
Verse 31
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः
Verse 32
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः
Verse 33
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम्
Verse 34
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः
Verse 35
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति
Verse 36
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम्
Verse 37
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः
Verse 38
स तु गत्वा मधुपुरं प्रविश्य च दशाननः न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्
Verse 39
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता
Verse 40
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा तां समुत्थापयामास न भेतव्यमिति ब्रुवन्
Verse 41
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज भर्तारं न ममेहाद्य हन्तुर्महसि मानद
Verse 42
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते भयानामपि सर्वेषां वैधव्यं व्यसनं महत्
Verse 43
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम्
Verse 44
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्
Verse 45
सह तेन गमिष्यामि सुरलोकं जयावहे तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात्
Verse 46
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः
Verse 47
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च
Verse 48
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम्
Verse 49
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः
Verse 50
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः पूजयमास धर्मेण रावणं राक्षसाधिपम्
Verse 51
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् तत्र चैकां निशामुष्य गमनायोपचक्रमे
Verse 52
ततः कैलासमासाद्य शैलं वैश्रवणालयम् राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत्
0:000:00
Speed: