Book 7 • Chapter 26
Sarga 26
61 verses
Verse 1
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् अस्तं प्राप्ते दिनकरे निवासं समरोचयत्
Verse 2
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम्
Verse 3
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान्
Verse 4
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि
Verse 5
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा
Verse 6
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः
Verse 7
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम्
Verse 8
भिरुद्भासितवनान्तरे विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै
Verse 9
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः अप्सरोगणसङ्घानां गायतां धनदालये
Verse 10
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः शैलं तं वासयन्तीव मधुमाधवगन्धिनः
Verse 11
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः
Verse 12
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च
Verse 13
रावणस्तु महावीर्यः कामस्य वशमागतः विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत
Verse 14
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता
Verse 15
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना
Verse 16
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम्
Verse 17
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः
Verse 18
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता
Verse 19
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ऊरू करिकराकारौ करौ पल्लवकोमलौ सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता
Verse 20
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत
Verse 21
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते
Verse 22
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति
Verse 23
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ
Verse 24
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम्
Verse 25
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ मामतीत्य हि यं च त्वं यासि भीरु न शोभनम्
Verse 26
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम्
Verse 27
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते
Verse 28
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम्
Verse 29
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः
Verse 30
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते
Verse 31
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा
Verse 32
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः बाढमित्येव सा रम्भा प्राह रावणमुत्तरम्
Verse 33
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम्
Verse 34
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः
Verse 35
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम्
Verse 36
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति
Verse 37
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम
Verse 38
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम्
Verse 39
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते
Verse 40
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः देवलोकस्थितिरियं सुराणां शाश्वती मता
Verse 41
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः
Verse 42
अस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले कामभोगाभिसंसक्तो मैथुनायोपचक्रमे
Verse 43
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा गजेन्द्राक्रीडमथिता नदीवाकुलतां गता
Verse 44
लुलिताकुलकेशान्ता करवेपितपल्लवा पवनेनावधूतेव लता कुसुमशालिनी
Verse 45
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः नलकूबरमासाद्य पादयोर्निपपात ह
Verse 46
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे
Verse 47
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे
Verse 48
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् तेन सैन्यसहायेन निशेयं परिणामिता
Verse 49
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा
Verse 50
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम
Verse 51
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता
Verse 52
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च
Verse 53
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह
Verse 54
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना
Verse 55
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम्
Verse 56
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता तस्मात्स युवतीमन्यां नाकामामुपयास्यति
Verse 57
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् मूर्धा तु सप्तधा तस्य शकलीभविता तदा
Verse 58
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः
Verse 59
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम्
Verse 60
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् नारीषु मैथुने भावं नाकामास्वभ्यरोचयत्
Verse 61
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम्
0:000:00
Speed: