🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 27

Sarga 27

50 verses

Verse 1
कैलासं लङ्घयित्वाथ दशग्रीवः  रावणः आससाद महातेजा इन्द्रलोकं निशाचरः
Verse 2
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः
Verse 3
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान्
Verse 4
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः
Verse 5
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः
Verse 6
 तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति विष्णोः समीपमागत्य वाक्यमेतदुवाच 
Verse 7
विष्णो कथं करिष्यामि महावीर्यपराक्रमः असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते
Verse 8
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना
Verse 9
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु
Verse 10
नह्यन्यो देवदेवेश त्वामृते मधुसूदन गतिः परायणं नास्ति त्रैलोक्ये सचराचरे
Verse 11
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः
Verse 12
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये
Verse 13
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो
Verse 14
एवमुक्तः  शक्रेण देवो नारायणः प्रभुः अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां  मे
Verse 15
 तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः हन्तुं चापि समासाद्य वरदानेन दुर्जयः
Verse 16
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः
Verse 17
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि
Verse 18
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात्
Verse 19
प्रतिजाने  देवेन्द्र त्वत्समीपे शतक्रतो भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम्
Verse 20
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् एतत्ते कथितं तत्त्वं देवराज शचीपते
Verse 21
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल
Verse 22
यामि ज्ञात्वा कालमुपागतम् ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात्
Verse 23
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः
Verse 24
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत्
Verse 25
ततो दैवतसैन्यनां सङ्क्षोभः समजायत तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि
Verse 26
ततो युद्धं समभवेद्देवदानवरक्षसाम् घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम्
Verse 27
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः युद्धार्थं समवर्तन्त सचिवा रावणस्य ते
Verse 28
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ अकम्पनो निकुम्भश्च शुकः सारण एव 
Verse 29
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः
Verse 30
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः
Verse 31
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ एतैः सर्वैः परिवृतो महावीर्यो महाबलः
Verse 32
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश   दैवतगणान्सर्वान्नानाप्रहरणैः शितैः व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव
Verse 33
तद्दैवतबलं राम हन्यमानं निशाचरैः प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव
Verse 34
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः सावित्र इति विख्यातः प्रविवेश रणाजिरम्
Verse 35
तथा  ऽदित्यौ महावीर्यौ त्वष्टा पूषा  दंशितौ निंर्भयौ सह सैन्येन तदा प्राविशतां रणे
Verse 36
ततो युद्धं समभवत्सुराणां सह राक्षसैः क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम्
Verse 37
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः
Verse 38
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम्
Verse 39
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत
Verse 40
 दैवतबलं सर्वं नानाप्रहणैः शितैः व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा
Verse 41
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः हन्यमानाः सुराः सर्वे  व्यतिष्ठन्त संहताः
Verse 42
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः
Verse 43
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् विक्रमेण महातेजा वारयामास संयुगे
Verse 44
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम्
Verse 45
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ततस्तस्य महाबाणैर्वसुना सुमहात्मना निहतः पन्नगरथः क्षणेन विनिपातितः
Verse 46
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् गदां तस्य वधार्थाय वसुर्जग्राह पाणिना
Verse 47
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः
Verse 48
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः
Verse 49
तस्य नैवास्थि  शिरो  मांसं ददृशे तदा गदया भस्मतां नीतं निहतस्य रणाजिरे
Verse 50
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे
0:000:00
Speed: