Book 7 • Chapter 28
Sarga 28
49 verses
Verse 1
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः
Verse 2
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः
Verse 3
सुरथेनाग्निवर्णेन कामगेन महारथः अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन्
Verse 4
ततः प्रविशतस्तस्य विविधायुधधारिणः विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः
Verse 5
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान्
Verse 6
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः एष गच्छति पुत्रो मे युद्धार्थमपराजितः
Verse 7
ततः शक्रसुतो देवो जयन्त इति विश्रुतः रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत
Verse 8
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे
Verse 9
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च
Verse 10
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः सारथौ पातयामास शरान्कनकभूषणान्
Verse 11
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत
Verse 12
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः रावणिः शक्रतनयं शरवर्षैरवाकिरत्
Verse 13
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः
Verse 14
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् महान्ति गिरिशृङ्गाणि पातयामास रावणिः
Verse 15
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः
Verse 16
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् बहुप्रकारमस्वस्थमभवच्छरपीडितम्
Verse 17
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा तत्र तत्र विपर्यस्तं समन्तात्परिधावति
Verse 18
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा
Verse 19
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः
Verse 20
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा आर्यकः स हि तस्यासीत्पुलोमा येन सा शची
Verse 21
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः
Verse 22
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः अभ्यधावत देवांस्तान्मुमोच च महास्वनम्
Verse 23
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् मातलिं चाह देवेशो रथः समुपनीयताम्
Verse 24
स तु दिव्यो महाभीमः सज्ज एव महारथः उपस्थितो मातलिना वाह्यमानो महाजवः
Verse 25
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः अग्रतो वायुचपला नेदुः परमनिःस्वनाः
Verse 26
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे
Verse 27
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः
Verse 28
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे
Verse 29
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा
Verse 30
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे
Verse 31
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत
Verse 32
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्
Verse 33
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे
Verse 34
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत
Verse 35
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः येन केनैव संरब्धस्ताडयामास वै सुरान्
Verse 36
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम्
Verse 37
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः
Verse 38
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः
Verse 39
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे
Verse 40
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे शिंशुमारान्वराहांश्च पिशाचवदनान्तथा
Verse 41
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः
Verse 42
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः निहतानां प्रमत्तानां राक्षसानां महीतले
Verse 43
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी
Verse 44
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम्
Verse 45
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत
Verse 46
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश
Verse 47
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि निपातयामास शरान्पावकादित्यवर्चसः
Verse 48
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत्
Verse 49
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम्
0:000:00
Speed: