🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 29

Sarga 29

42 verses

Verse 1
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम्
Verse 2
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम्
Verse 3
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम्
Verse 4
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः
Verse 5
 तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् क्रोधमभ्यगमत्तीव्रं महानादं  मुक्तवान्
Verse 6
क्रोधात्सूतं  दुर्धर्षः स्यन्दनस्थमुवाच  परसैन्यस्य मध्येन यावदन्तो नयस्व माम्
Verse 7
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम्
Verse 8
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि विषादो   कर्तव्यः शीघ्रं वाहय मे रथम्
Verse 9
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम्
Verse 10
अयं  नन्दनोद्देशो यत्र वर्तामहे वयम् नय मामद्य तत्र त्वमुदयो यत्र पर्वतः
Verse 11
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् आदिदेशाथ शत्रणां मध्येनैव  सारथिः
Verse 12
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत्
Verse 13
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम्
Verse 14
एष ह्यतिबलः सैन्यै रथेन पवनौजसा गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि
Verse 15
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे
Verse 16
यथा बलौ निरुद्धे  त्रैलोक्यं भुज्यते मया एवमेतस्य पापस्य निरोधो मम रोचते
Verse 17
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् अयुध्यत महाराज राक्षसांस्त्रासयन्रणे
Verse 18
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः
Verse 19
ततः  योजनशतं प्रविष्टो राक्षसाधिपः देवतानां बलं सर्वं शरवर्षैरवाकिरत्
Verse 20
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम्
Verse 21
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम्
Verse 22
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम्
Verse 23
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत्
Verse 24
 सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः
Verse 25
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः त्रिदशैः सुमहावीर्यैर्न चकार  किञ्चन
Verse 26
 मातलिं समायान्तं ताडयित्वा शरोत्तमैः महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत्
Verse 27
ततस्त्यक्त्वा रथं शक्रो विससर्ज  सारथिम् ऐरावतं समारुह्य मृगयामास रावणिम्
Verse 28
 तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः इन्द्रं मायापरिक्षिप्तं कृत्वा  प्राद्रवच्छरैः
Verse 29
 तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत्
Verse 30
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन्
Verse 31
दृश्यते   मायावी शक्रजित्समितिञ्जयः विद्यावानपि येनेन्द्रो मायया नीयते बलात्
Verse 32
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा रावणं विमुखीकृत्य शरवर्षैरवाकिरन्
Verse 33
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा  शशाक  सङ्ग्रामे योद्धुं शत्रुभिरर्दितः
Verse 34
 तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम्
Verse 35
आगच्छ तात गच्छामो रणकर्म निवर्तताम् जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः
Verse 36
अयं हि सुरसैन्यस्य त्रैलोक्यस्य  यः प्रभुः  गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः
Verse 37
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम्
Verse 38
ततस्ते दैवतगणा निवृत्ता रणकर्मणः तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव 
Verse 39
अथ  रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य  वाक्यमब्रवीत्
Verse 40
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः
Verse 41
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः
Verse 42
अथ  बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान्
0:000:00
Speed: