Book 7 • Chapter 30
Sarga 30
55 verses
Verse 1
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा
Verse 2
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः
Verse 3
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा
Verse 4
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै
Verse 5
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् जगतीन्द्रजिदित्येव परिख्यातो भविष्यति
Verse 6
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे
Verse 7
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः
Verse 8
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः अमरत्वमहं देव वृणे यद्येष मुच्यते
Verse 9
चतुष्पदां खेचराणामन्येषां वा महौजसाम् वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम्
Verse 10
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम्
Verse 11
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम्
Verse 12
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम्
Verse 13
्वं हि कस्यचित्प्राणिनो भुवि अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे
Verse 14
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः
Verse 15
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः
Verse 16
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम्
Verse 17
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्
Verse 18
एवमस्त्विति तं चाह वाक्यं देवः पितामहः मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः
Verse 19
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः
Verse 20
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम्
Verse 21
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो एकवर्णाः समाभाषा एकरूपाश्च सर्वशः
Verse 22
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम्
Verse 23
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्
Verse 24
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत्
Verse 25
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता अहल्येति मया शक्र तस्या नाम प्रवर्तितम्
Verse 26
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत्
Verse 27
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो स्थानाधिकतया पत्नी ममैषेति पुरन्दर
Verse 28
सा मया न्यासभूता तु गौतमस्य महात्मनः न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह
Verse 29
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा
Verse 30
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव
Verse 31
सा त्वया धर्षिता शक्र कामार्तेन समन्युना दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा
Verse 32
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम्
Verse 33
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि
Verse 34
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः मानुषेष्वपि लोकेषु भविष्यति न संशयः
Verse 35
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति न च ते स्थावरं स्थानं भविष्यति न संशयः
Verse 36
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत्
Verse 37
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः दुर्विनीते विनिध्वंस ममाश्रमसमीपतः
Verse 38
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता तस्माद्रूपवती लोके न त्वमेका भविष्यति
Verse 39
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः
Verse 40
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः सा तं प्रसादयामास महर्षिं गौतमं तदा
Verse 41
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि
Verse 42
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः
Verse 43
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि
Verse 44
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि
Verse 45
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम्
Verse 46
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम्
Verse 47
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव
Verse 48
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः
Verse 49
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे नीतः सन्निहितश्चैव आर्यकेण महोदधौ
Verse 50
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट्
Verse 51
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः
Verse 52
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा
Verse 53
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम्
Verse 54
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे
Verse 55
एवं राम समुद्भूतो रावणो लोककण्टकः सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः
0:000:00
Speed: