🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 31

Sarga 31

43 verses

Verse 1
ततो रामो महातेजा विस्मयात्पुनरेव हि उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम्
Verse 2
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम
Verse 3
राजा वा राजमात्रो वा किं तदा नात्र कश्चन धर्षणं यत्र  प्राप्तो रावणो राक्षसेश्वरः
Verse 4
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः
Verse 5
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः उवाच रामं प्रहसन्पितामह इवेश्वरम्
Verse 6
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ चचार रावणो राम पृथिवीं पृथिवीपते
Verse 7
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः
Verse 8
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा
Verse 9
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः
Verse 10
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत
Verse 11
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण  ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम्
Verse 12
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः
Verse 13
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम्
Verse 14
 तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम्
Verse 15
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम्
Verse 16
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम्
Verse 17
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम्
Verse 18
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ
Verse 19
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम्
Verse 20
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम्
Verse 21
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम्
Verse 22
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम्
Verse 23
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् पुष्पकादवरुह्याशु नर्मदां सरितां वराम्
Verse 24
इष्टामिव वरां नारीमवगाह्य दशाननः  तस्याः पुलिने रम्ये नानामुनिनिषेविते
Verse 25
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः
Verse 26
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः उवाच सचिवांस्तत्र सलीलं शुकसारणौ
Verse 27
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः
Verse 28
मामासीनं विदित्वैव चन्द्रायति दिवाकरः
Verse 29
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः
Verse 30
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता
Verse 31
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि चन्दनस्य रसेनेव रुधिरेण समुक्षिताः
Verse 32
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् महापद्ममुखा मत्ता गङ्गामिव गहागजाः अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ
Verse 33
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः
Verse 34
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः समहोदरधूम्राक्षा नर्मदां विजगाहिरे
Verse 35
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः
Verse 36
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु
Verse 37
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः
Verse 38
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः
Verse 39
तत्र स्नात्वा  विधिवज्जप्त्वा जप्यमनुत्तमम् नर्मदासलिलात्तस्मादुत्ततार  रावणः
Verse 40
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः
Verse 41
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः यत्र यत्र  याति स्म रावणो राक्षसेश्वरः जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते
Verse 42
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः
Verse 43
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् समर्चयित्वा  निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः
0:000:00
Speed: