Book 7 • Chapter 32
Sarga 32
73 verses
Verse 1
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः पुष्पोपहारं कुरुते तस्माद्देशाददूरतः
Verse 2
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः
Verse 3
तासां मध्यगतो राजा रराज च तदार्जुनः करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः
Verse 4
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः
Verse 5
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति
Verse 6
समीननक्रमकरः सपुष्पकुशसंस्तरः स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ
Verse 7
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः पुष्पोपहारं सकलं रावणस्य जहार ह
Verse 8
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्
Verse 9
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु
Verse 10
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम्
Verse 11
सव्येतरकराङ्गुल्या सशब्दं च दशाननः वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ
Verse 12
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ
Verse 13
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्
Verse 14
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् मदरक्तान्तनयनं मदव्याकुलतेजसम्
Verse 15
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्
Verse 16
बालानां वरनारीणां सहस्रेण समावृतम् समदानां करेणूनां सहस्रेणेव कुञ्जरम्
Verse 17
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ सन्निवृत्तावुपागम्य रावणं तमथोचतुः
Verse 18
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः
Verse 19
तेन बाहुसहस्रेण सन्निरुद्धजला नदी सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः
Verse 20
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः
Verse 21
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे चण्डः प्रवाति पवनः सनादः सुरजास्तथा
Verse 22
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः महोदरमहापार्श्वधूम्राक्षशुकसारणैः
Verse 23
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः अदीर्घेणैव कालेन स तदा राक्षसो बली तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः
Verse 24
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्
Verse 25
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः
Verse 26
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै
Verse 27
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन्
Verse 28
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण
Verse 29
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्
Verse 30
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम्
Verse 31
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि
Verse 32
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः
Verse 33
ततो हलहलाशब्दो नर्मदातीर आबभौ अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम्
Verse 34
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः सरावणानर्दयन्तः समन्तात्समभिद्रुताः
Verse 35
हैहयाधिपयोधानां वेग आसीत्सुदारुणः सनक्रमीनमकरसमुद्रस्येव निःस्वनः
Verse 36
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा
Verse 37
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः
Verse 38
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः
Verse 39
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः प्रजज्वाल महाघोरो युगान्त इव पावकः
Verse 40
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् अभिदुद्राव रक्षांसि तमांसीव दिवाकरः
Verse 41
बाहुविक्षेपकरणां समुद्यम्य महागदाम् गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः
Verse 42
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः
Verse 43
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः
Verse 44
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव
Verse 45
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः निपुणं वञ्चयामास सगदो ऽगदविक्रमः
Verse 46
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम्
Verse 47
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा निपपात स्थितः शैलो वज्रिवज्रहतो यथा
Verse 48
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात्
Verse 49
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम्
Verse 50
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम्
Verse 51
सागराविव संरब्धौ चलन्मूलाविवाचलौ तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ
Verse 52
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ
Verse 53
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम्
Verse 54
वज्रप्रहारानचला यथा घोरान्विषेहिरे गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ
Verse 55
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः
Verse 56
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा
Verse 57
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः अर्जुनोरसि निर्भाति गदोल्केव महागिरौ
Verse 58
नार्जुनः खेदमायाति न राक्षसगणेश्वरः इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः
Verse 59
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ
Verse 60
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा स्तनयोरन्तरे मुक्ता रावणस्य महोरसि
Verse 61
वरदानकृतत्राणे सा गदा रावणोरसि दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ
Verse 62
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन्
Verse 63
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम्
Verse 64
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् बबन्ध बलवान्राजा बलिं नारायणो यथा
Verse 65
बध्यमाने दशग्रीवे सिद्धचारणदेवताः साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि
Verse 66
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः
Verse 67
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम्
Verse 68
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ उद्भूत आतपापाये पयोदानामिवाम्बुधौ
Verse 69
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् मुसलानि सशूलानि सोत्ससर्ज तदार्जुने
Verse 70
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः आयुधान्यमरारीणां जग्राहारिनिषूदनः
Verse 71
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः भित्त्वा विद्रावयामास वायुरम्बुधरानिव
Verse 72
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः
Verse 73
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः
0:000:00
Speed: