🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 33

Sarga 33

23 verses

Verse 1
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
Verse 2
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः
Verse 3
 वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः
Verse 4
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम्
Verse 5
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन्
Verse 6
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम्
Verse 7
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव  पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः
Verse 8
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम्
Verse 9
 तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य  पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा
Verse 10
अद्यैवममरावत्या तुल्या माहिष्मती कृता अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम्
Verse 11
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् अद्य मे सफलं जन्म अद्य मे सफलं तपः यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव
Verse 12
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान्
Verse 13
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा  पार्थिवम् पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम्
Verse 14
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन अतुलं ते बलं येन दशग्रीवस्त्वया जितः
Verse 15
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः
Verse 16
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम्
Verse 17
पुलस्त्याज्ञां प्रगृह्योचे  किञ्चन वचो ऽर्जुनः मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत्
Verse 18
 तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ
Verse 19
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः
Verse 20
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम 
Verse 21
एवं  रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः
Verse 22
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन नावज्ञा हि परे कार्या  इच्छेत् प्रियमात्मनः
Verse 23
ततः  राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं  दर्पात्
0:000:00
Speed: