Book 7 • Chapter 34
Sarga 34
46 verses
Verse 1
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः
Verse 2
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः
Verse 3
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् गत्वा ह्वयति युद्धाय वालिनं हेममालिनम्
Verse 4
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम्
Verse 5
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः
Verse 6
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्
Verse 7
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः युद्धार्थिनामिमे राजन्वानराधिपतेजसा
Verse 8
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस तदा वालिनमासाद्य तदन्तं तव जीवितम्
Verse 9
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति
Verse 10
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम्
Verse 11
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्
Verse 12
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम्
Verse 13
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत्
Verse 14
यदृच्छया तदा दृष्टो वालिनापि स रावणः पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम्
Verse 15
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा न चिन्तयति तं वाली रावणं पापनिश्चयम्
Verse 16
जिघृक्षमाणमायान्तं रावणं पापचेतसम् कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान्
Verse 17
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्
Verse 18
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव
Verse 19
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ
Verse 20
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः
Verse 21
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम्
Verse 22
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः जहार रावणं वाली पवनस्तोयदं यथा
Verse 23
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः
Verse 24
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान्
Verse 25
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः
Verse 26
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम्
Verse 27
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत
Verse 28
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः पश्चिमं सागरं वाली ह्याजगाम सरावणः
Verse 29
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः उत्तरं सागरं प्रायाद्वहमानो दशाननम्
Verse 30
बहुयोजनसाहस्रं वहमानो महाहरिः वायुवच्च मनोवच्च जगाम सह शत्रुणा
Verse 31
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम्
Verse 32
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः किष्किन्धामभितो गृह्य रावणं पुनरागमत्
Verse 33
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत्
Verse 34
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः
Verse 35
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत्
Verse 36
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया
Verse 37
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान्
Verse 38
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति
Verse 39
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम मनोनिलसुपर्णानां तव चात्र न संशयः
Verse 40
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः
Verse 41
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर
Verse 42
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम्
Verse 43
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव
Verse 44
स तत्र मासमुषितः सुग्रीव इव रावणः अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः
Verse 45
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ
Verse 46
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा
0:000:00
Speed: