Book 7 • Chapter 35
Sarga 35
65 verses
Verse 1
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत्
Verse 2
अतुलं बलमेतद्वै वालिनो रावणस्य च न त्वेताभ्यां हनुमता समं त्विति मतिर्मम
Verse 3
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् विक्रमश्च प्रभावश्च हनूमति कृतालयाः
Verse 4
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः
Verse 5
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा
Verse 6
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः एते हनुमता तत्र ह्येकेन वितिपातिताः
Verse 7
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् लङ्का भस्मीकृता येन पावकेनेव मेदिनी
Verse 8
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः
Verse 9
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः
Verse 10
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत्
Verse 11
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा
Verse 12
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम्
Verse 13
एतन्मे भगवन्सर्वं हनूमति महामतौ विस्तरेण यथातत्त्वं कथयामरपूजित
Verse 14
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा हनूमतः समक्षं तमिदं वचनमब्रवीत्
Verse 15
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः न बले विद्यते तुल्यो न गतौ न मतौ परः
Verse 16
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा न वेत्ता हि बलं येन बली सन्निरिमर्दनः
Verse 17
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते
Verse 18
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव समाधाय मतिं राम निशामय वदाम्यहम्
Verse 19
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता
Verse 20
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता जनयामास तस्यां वै वायुरात्मजमुत्तमम्
Verse 21
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा
Verse 22
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा
Verse 23
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ददर्श फललोभाच्च ह्युत्पपात रविं प्रति
Verse 24
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः
Verse 25
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति देवदानवयक्षाणां विस्मयः सुमहानभूत्
Verse 26
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम्
Verse 27
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः यौवनं बलमासाद्य कथं वेगो भविष्यति
Verse 28
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः
Verse 29
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः
Verse 30
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः कार्यं चात्र समायत्तमित्येवं न ददाह सः
Verse 31
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः तमेव दिवसं राहुर्जिघृक्षति दिवाकरम्
Verse 32
अनेन स परामृष्टो राम सूर्यरथोपरि अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः
Verse 33
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम्
Verse 34
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन्
Verse 35
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः अथान्यो राहुरासाद्य जग्राह सहसा रविम्
Verse 36
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम्
Verse 37
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम्
Verse 38
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता
Verse 39
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत्
Verse 40
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम्
Verse 41
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः
Verse 42
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत
Verse 43
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये
Verse 44
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः
Verse 45
तथास्य धावतो रूपमैरावतजिघृक्षया मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम्
Verse 46
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत्
Verse 47
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः पतमानस्य चैतस्य वामो हनुरभज्यत
Verse 48
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः
Verse 49
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः
Verse 50
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् रुरोध सर्वभूतानि यथा वर्षाणि वासवः
Verse 51
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे
Verse 52
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत्
Verse 53
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया
Verse 54
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः
Verse 55
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम
Verse 56
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम्
Verse 57
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत
Verse 58
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम्
Verse 59
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः
Verse 60
अशरीरः शरीरेषु वायुश्चरति पालयन् शरीरं हि विना वायुं समतां याति दारुभिः
Verse 61
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् वायुना सम्परित्यक्तं न सुखं विन्दते जगत्
Verse 62
अद्यैव च परित्यक्तं वायुना जगदायुषा अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः
Verse 63
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः
Verse 64
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः
Verse 65
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः
0:000:00
Speed: