🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 36

Sarga 36

63 verses

Verse 1
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः
Verse 2
चलकुण्डलमौलिस्रक्तपनीयविभूषणः पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे
Verse 3
तं तु वेदविदा तेन लम्बाभरणशोभिना वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्
Verse 4
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्
Verse 5
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा
Verse 6
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः
Verse 7
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः उवाच देवता ब्रह्मा मारुतप्रियकाम्यया
Verse 8
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम्
Verse 9
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये
Verse 10
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत्
Verse 11
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः नाम्ना वै कपिशार्दूलो भविता हनुमानिति
Verse 12
अहमस्य प्रदास्यामि परमं वरमद्भुतम् इतः प्रभृति वज्रस्य ममावध्यो भविष्यति
Verse 13
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम्
Verse 14
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति
Verse 15
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति वर्षायुतशतेनापि मत्पाशादुदकादपि
Verse 16
यमो दण्डादवध्यत्वमरोगत्वं  नित्यशः वरं ददामि सन्तुष्ट अविषादं  संयुगे
Verse 17
गदेयं मामिका नैनं संयुगेषु वधिष्यति इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः
Verse 18
मत्तो मदायुधानां   वध्यो ऽयं भविष्यति इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः
Verse 19
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति दीर्घायुश्च महात्मा  इति ब्रह्माब्रवीद्वचः
Verse 20
विश्वकर्मा  दृष्ट्वैनं बालसूर्योपमं शिशुम् शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः
Verse 21
मत्कृतानि  शस्त्राणि यानि दिव्यानि संयुगे तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति
Verse 22
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः
Verse 23
अमित्राणां भयकरो मित्राणामभयङ्करः अजेयो भविता पुत्रस्तव मारुत मारुतिः
Verse 24
कामरूपः कामचारी कामगः प्लवतां वरः भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति
Verse 25
रावणोत्सादनार्थानि रामप्रियकरणि  रोमहर्षकराण्येष कर्ता कर्माणि संयुगे
Verse 26
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह यथागतं ययुः सर्वे पितामहपुरोगमाः
Verse 27
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः
Verse 28
प्राप्य राम वरानेष वरदानसमन्वितः बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः
Verse 29
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः आश्रमेषु महर्षीणामपराध्यति निर्भयः
Verse 30
स्रुग्भाण्डान्यग्निहोत्रं  वल्कलाजिनसञ्चयान् भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम्
Verse 31
एवंविधानि कर्माणि प्रावर्तत महाबलः सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः
Verse 32
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः
Verse 33
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः
Verse 34
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः
Verse 35
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम्
Verse 36
ततस्स हृततेजौजा महर्षिवचनौजसा एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत्
Verse 37
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता सर्ववानरराजा  ऽसीत्तेजसा भास्करप्रभः
Verse 38
 तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः   ऋक्षरजा नाम कालधर्मेण सङ्गतः
Verse 39
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे
Verse 40
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् आबाल्यं सख्यमभवदनिलस्याग्निना यथा
Verse 41
एष शापवशादेव  वेद बलमात्मनः वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम्
Verse 42
 ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना
Verse 43
देव जानाति  ह्येष बलमात्मनि मारुतिः ऋषिशापाहृतबलस्तदैष कपिसत्तमः
Verse 44
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे
Verse 45
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके
Verse 46
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः
Verse 47
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव
Verse 48
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात्
Verse 49
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात्
Verse 50
एषेव चान्ये  महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः
Verse 51
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि हनूमतो बालभावे कर्मैतत्कथितं मया
Verse 52
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव  विस्मयं परमं जग्मुर्वानरा राक्षसैः सह
Verse 53
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम्
Verse 54
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत्
Verse 55
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः
Verse 56
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया
Verse 57
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम्
Verse 58
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः
Verse 59
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः
Verse 60
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः
Verse 61
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः
Verse 62
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् राघवश्च तमेवार्थं चिन्तयामास विस्मितः
Verse 63
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत्
0:000:00
Speed: