Book 7 • Chapter 37
Sarga 37
24 verses
Verse 1
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी
Verse 2
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि
Verse 3
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः
Verse 4
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप
Verse 5
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि
Verse 6
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव
Verse 7
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप
Verse 8
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ
Verse 9
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः
Verse 10
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः
Verse 11
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा
Verse 12
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः
Verse 13
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम्
Verse 14
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः
Verse 15
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः
Verse 16
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः
Verse 17
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम्
Verse 18
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः मुदिता नाम पार्श्वस्था बहवः समुपाविशन्
Verse 19
वानराश्च महावीर्या विंशतिः कामरूपिणः सुग्रीवप्रमुखा राममुपासन्ते महौजसः
Verse 20
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः उपासते महात्मानं धनेशमिव गुह्यकाः
Verse 21
तथा निगमवृद्धाश्च कुलीना ये च मानवाः शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः
Verse 22
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः
Verse 23
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते
Verse 24
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः
0:000:00
Speed: