Book 7 • Chapter 111
Sarga 111
25 verses
Verse 1
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम्
Verse 2
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
Verse 3
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि
Verse 4
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः
Verse 5
अपुत्रो लभते पुत्रमधनो लभते धनम् सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत्
Verse 6
पापान्यपि च यः कुर्यादहन्यहनि मानवः पठत्येकमपि श्लोकं पापात्स परिमुच्यते
Verse 7
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः
Verse 8
एतदाख्यानमायुष्यं पठन्रामायणं नरः सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते
Verse 9
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ऋषभं प्राप्य राजानं निवासमुपयास्यति
Verse 10
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत
Verse 11
अश्वमेधसहस्रस्य वाजपेयायुतस्य च लभते श्रावणादेव सर्गस्यैकस्य मानवः
Verse 12
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम्
Verse 13
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति यश्च रामायणं लोके शृणोति सदृशावुभौ
Verse 14
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति
Verse 15
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम्
Verse 16
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः
Verse 17
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम्
Verse 18
अपुत्रो लभते पुत्रमधनो लभते धनम् सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत्
Verse 19
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात्
Verse 20
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने
Verse 21
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः
Verse 22
पिता पितामहस्तस्य तथैव प्रपितामहः तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः
Verse 23
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा
Verse 24
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा
Verse 25
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्
0:000:00
Speed: