Book 7 • Chapter 110
Sarga 110
28 verses
Verse 1
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् सरयूं पुण्यसलिलां ददर्श रघुनन्दनः
Verse 2
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः आगतः सप्रजो रामस्तं देशं रघुनन्दनः
Verse 3
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः
Verse 4
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः विमानशतकोटीभिर्दिव्याभिरभिसंवृतः
Verse 5
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः
Verse 6
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत्
Verse 7
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले सरयूसलिलं रामः पद्भ्यां समुपचक्रमे
Verse 8
ततः पितामहो वाणीमन्तरिक्षादभाषत आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव
Verse 9
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम्
Verse 10
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम्
Verse 11
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ां
Verse 12
विशालाक्षीं तव पूर्वपरिग्रहाम् पितामहवचः श्रुत्वा विनिश्चित्य महामतिः विवेश वैष्णवं तेजः सशरीरः सहानुजः
Verse 13
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः
Verse 14
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः
Verse 15
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम्
Verse 16
अथ विष्णुर्महातेजाः पितामहमुवाच ह एषां लोकं जनौघानां दातुमर्हसि सुव्रत
Verse 17
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते
Verse 18
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः
Verse 19
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति
Verse 20
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे
Verse 21
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः
Verse 22
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे
Verse 23
तथोक्तवति देवेशे गोप्रतारमुपागताः भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः
Verse 24
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत
Verse 25
तिर्यग्योनिगतानां च शतानि सरयूजलम् सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्
Verse 26
गत्वा तु सरयूतोयं स्थावराणि चराणि च प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन्
Verse 27
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि
Verse 28
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत्
0:000:00
Speed: