🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 109

Sarga 109

22 verses

Verse 1
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्
Verse 2
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः वाजपेयातपत्रं  शोभमानं महापथे
Verse 3
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम्
Verse 4
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ
Verse 5
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान्
Verse 6
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः
Verse 7
शरा नानाविधाश्चापि धनुरायतमुत्तमम् तथा  ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः
Verse 8
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः
Verse 9
ऋषयश्च महात्मानः सर्व एव महीसुराः अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम्
Verse 10
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः सवृद्धबालदासीकाः सवर्षवरकिङ्कराः
Verse 11
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः
Verse 12
ते  सर्वे महात्मानः साग्निहोत्राः समागताः सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम्
Verse 13
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत्
Verse 14
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः
Verse 15
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः
Verse 16
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम्
Verse 17
 तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः हृष्टं समुदितं सर्वं बभूव परमाद्भुतम्
Verse 18
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा
Verse 19
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः
Verse 20
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि  राघवं तान्यनुययुः स्वर्गाय समुपस्थितम्
Verse 21
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि  सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि
Verse 22
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः
0:000:00
Speed: