Book 7 • Chapter 108
Sarga 108
38 verses
Verse 1
ते दूता रामवाक्येन चोदिता लघुविक्रमाः प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि
Verse 2
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत्
Verse 3
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च पुत्रयोरभिषेकं च पौरानुगमनं तथा
Verse 4
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि कुशावतीति नाम्ना सा कृता रामेण धीमता श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह
Verse 5
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ
Verse 6
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन्
Verse 7
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम्
Verse 8
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह
Verse 9
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम्
Verse 10
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः
Verse 11
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः
Verse 12
स ददर्श महात्मानं ज्वलन्तमिव पावकम् सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः
Verse 13
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन्
Verse 14
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन तवानुगमने राजन्विद्धि मां कृतनिश्चयम्
Verse 15
न चान्यदपि वक्तव्यमतो वीर न शासनम् विलोक्यमानमिच्छामि मद्विधेन विशेषतः
Verse 16
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह
Verse 17
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः
Verse 18
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम्
Verse 19
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा रामक्षयं विदित्वा ते सर्व एव समागताः
Verse 20
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः
Verse 21
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः
Verse 22
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन्
Verse 23
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः
Verse 24
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर तवानुगमने राजन्विद्धि मां कृतनिश्चयम्
Verse 25
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन्
Verse 26
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः गच्छेयं देवलोकं वा परमं वा पदं महत्
Verse 27
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि
Verse 28
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह
Verse 29
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि
Verse 30
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते
Verse 31
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् आराधनीयमनिशं सर्वैर्दैवैः सवासवैः
Verse 32
तथेति प्रतिजग्राह रामवाक्यं विभीषणः राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन्
Verse 33
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय
Verse 34
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन्
Verse 35
एवमुक्तस्तु हनुमान्राघवेण महात्मना वाक्यं विज्ञापयामास परं हर्षमवाप्य च
Verse 36
यावत्तव कथा लोके विचरिष्यति पावनी तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्
Verse 37
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह
Verse 38
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम्
0:000:00
Speed: