Book 7 • Chapter 107
Sarga 107
21 verses
Verse 1
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्
Verse 2
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम्
Verse 3
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्
Verse 4
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्
Verse 5
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् राज्यं विगर्हयामास राघवं चेदमब्रवीत्
Verse 6
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि न कामये यथा राज्यं त्वां विना रघुनन्दन
Verse 7
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्
Verse 8
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम्
Verse 9
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत्
Verse 10
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः
Verse 11
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत्
Verse 12
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि
Verse 13
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम्
Verse 14
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर
Verse 15
एषा नः परमा प्रीतिरेष नः परमो वरः हृद्गता नः सदा प्रीतिस्तवानुगमने नृप
Verse 16
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः
Verse 17
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् अभिषिच्य महात्मानावुभौ रामः कुशीलवौ
Verse 18
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत्
Verse 19
रथानां तु सहस्राणि नागानामयुतानि च दशायुतानि चाश्वानामेकैकस्य धनं ददौ
Verse 20
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ
Verse 21
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने
0:000:00
Speed: