Book 7 • Chapter 106
Sarga 106
18 verses
Verse 1
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्
Verse 2
न संतापं महाबाहो मदर्थं कर्तुमर्हसि पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी
Verse 3
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः
Verse 4
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव
Verse 5
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः मन्त्रिणः समुपानीय तथैव च पुरोधसम्
Verse 6
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च
Verse 7
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह
Verse 8
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् लक्ष्मणेन वियोगश्च तव राम महायशः
Verse 9
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत्
Verse 10
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः
Verse 11
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह
Verse 12
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत्
Verse 13
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः त्यागो वधो वा विहितः साधूनां तूभयं समम्
Verse 14
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह
Verse 15
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह
Verse 16
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा
Verse 17
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह
Verse 18
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः
0:000:00
Speed: