🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 105

Sarga 105

18 verses

Verse 1
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्
Verse 2
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते
Verse 3
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा अभिवाद्य महात्मानं वाक्यमेतदुवाच 
Verse 4
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम्
Verse 5
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा
Verse 6
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय अस्मिन्क्षणे मां सौमित्रे  निवेदयसे यदि
Verse 7
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा भरतं चैव सौमित्रे युष्माकं या  सन्ततिः
Verse 8
 हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्
Verse 9
एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्
Verse 10
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य  निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श 
Verse 11
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत
Verse 12
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल
Verse 13
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ
Verse 14
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्
Verse 15
 तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् साधु रामेति सम्भाष्य स्वमाश्रममुपागमत्
Verse 16
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत्
Verse 17
दुःखेन  सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् अवाङ्मुखो दीनमना व्याहर्तुं  शशाक 
Verse 18
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः
0:000:00
Speed: