🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 104

Sarga 104

19 verses

Verse 1
शृणु राजन्महासत्व यदर्थमहमागतः पितामहेन देवेन प्रेषितो ऽस्मि महाबल
Verse 2
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय मायासम्भावितो वीर कालः सर्वसमाहरः
Verse 3
पितामहश्च भगवानाह लोकपतिः प्रभुः समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम्
Verse 4
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः
Verse 5
भोगवन्तं ततो नागमनन्तमुदकेशयम् मायया जनयित्वा त्वं द्वौ  सत्त्वौ महाबलौ
Verse 6
मधुं  कैटभं चैव ययोरस्थिचयैर्वृता इयं पर्वतसम्बाधा मेदिनी चाभवन्मही
Verse 7
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम्
Verse 8
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्
Verse 9
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
Verse 10
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे
Verse 11
 त्वं वित्रास्यमानासु प्रजासु जगतां वर रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः
Verse 12
दश वर्षसहस्राणि दश वर्षशतानि  कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा
Verse 13
 त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम्
Verse 14
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् वस वा वीर भद्रं  एवमाह पितामहः
Verse 15
अथ वा विजिगीषा ते सुरलोकाय राघव सनाथा विष्णुना देवा भवन्तु विगतज्वराः
Verse 16
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्
Verse 17
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् प्रीतिर्हि महती जाता तवागमनसम्भवा
Verse 18
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः
Verse 19
हद्गतो ह्यसि सम्प्राप्तो  मे तत्र विचारणा मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् स्थातव्यं सर्वसंहार यथा ह्याह पितामहः
0:000:00
Speed: