🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 103

Sarga 103

17 verses

Verse 1
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते कालस्तापसरूपेण राजद्वारमुपागमत्
Verse 2
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात्
Verse 3
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः रामं दिदृक्षुरायातः कार्येण हि महाबल
Verse 4
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः न्यवेदयत रामाय तापसं तं समागतम्
Verse 5
जयस्व राम धर्मेण उभौ लोकौ महाद्युते दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः
Verse 6
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच  प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत्
Verse 7
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः
Verse 8
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्
Verse 9
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे
Verse 10
पृष्टश्च कुशलं तेन रामेण वदतां वरः आसने काञ्चने दिव्ये निषसाद महायशाः
Verse 11
तमुवाच ततो रामः स्वागतं ते महामुने प्रापयास्य  वाक्यानि यतो दूतस्त्वमागतः
Verse 12
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे
Verse 13
यः शृणोति निरीक्षेद्वा  वध्यो भविता तव भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे
Verse 14
 तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय
Verse 15
 मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ऋषेर्मम  सौमित्रे पश्येद्वा शृणुयाच्च यः
Verse 16
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् तमुवाच मुने वाक्यं कथयस्वेति राघवः
Verse 17
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते
0:000:00
Speed: