Book 7 • Chapter 103
Sarga 103
17 verses
Verse 1
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते कालस्तापसरूपेण राजद्वारमुपागमत्
Verse 2
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात्
Verse 3
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः रामं दिदृक्षुरायातः कार्येण हि महाबल
Verse 4
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः न्यवेदयत रामाय तापसं तं समागतम्
Verse 5
जयस्व राम धर्मेण उभौ लोकौ महाद्युते दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः
Verse 6
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत्
Verse 7
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः
Verse 8
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्
Verse 9
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे
Verse 10
पृष्टश्च कुशलं तेन रामेण वदतां वरः आसने काञ्चने दिव्ये निषसाद महायशाः
Verse 11
तमुवाच ततो रामः स्वागतं ते महामुने प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः
Verse 12
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे
Verse 13
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे
Verse 14
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय
Verse 15
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः
Verse 16
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् तमुवाच मुने वाक्यं कथयस्वेति राघवः
Verse 17
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते
0:000:00
Speed: