Book 7 • Chapter 102
Sarga 102
17 verses
Verse 1
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम्
Verse 2
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ
Verse 3
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ
Verse 4
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् स देशो दृश्यतां सौम्य नापराध्यामहे यथा
Verse 5
तथोक्तवति रामे तु भरतः प्रत्युवाच ह अयं कारुपथो देशो रमणीयो निरामयः
Verse 6
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम्
Verse 7
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्
Verse 8
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
Verse 9
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा
Verse 10
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे
Verse 11
अभिषिच्य कुमारौ स प्रस्थापयति राघवः अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्
Verse 12
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह
Verse 13
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्
Verse 14
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् अयोध्यां पुनरागम्य रामपादावुपास्त सः
Verse 15
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ
Verse 16
एवं वर्षसहस्राणि दश तेषां ययुस्तदा धर्मे प्रयतमानानां पौरकार्येषु नित्यदा
Verse 17
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः
0:000:00
Speed: