🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 101

Sarga 101

18 verses

Verse 1
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्
Verse 2
 निर्ययौ जनौघेन महता केकयाधिपः त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः
Verse 3
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ
Verse 4
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः योद्धुकामा महावीर्या व्यनदन् वै समन्ततः
Verse 5
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् सप्तरात्रं महाभीमं  चान्यतरयोर्जयः
Verse 6
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम्
Verse 7
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत्
Verse 8
ते बद्धाः कालपाशेन संवर्तेन विदारिताः क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम्
Verse 9
तं घातं घोरसङ्काशं  स्मरन्ति दिवौकसः निमेषान्तरमात्रेण तादृशानां महात्मनाम्
Verse 10
हतेषु तेषु सर्वेषु भरतः केकयीसुतः निवेशयामास तदा समृद्धे द्वे पुरोत्तमे
Verse 11
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते गन्धर्वदेशे रुचिरे गान्धारविषये  सः
Verse 12
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः
Verse 13
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे
Verse 14
उभे पुरवरे रम्ये विस्तरैरुपशोभिते गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः
Verse 15
शोभिते शोभनीयैश्च देवायतनविस्तरैः तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते
Verse 16
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः पुनरायान्महाबाहुरयोध्यां केकयीसुतः
Verse 17
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः
Verse 18
शशंस  यथावृत्तं गन्धर्ववधमुत्तमम् निवेशनं  देशस्य श्रुत्वा प्रीतो ऽस्य राघवः
0:000:00
Speed: