🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 100

Sarga 100

25 verses

Verse 1
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः स्वगुरुं प्रेषयामास राघवाय महात्मने गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्
Verse 2
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्
Verse 3
कम्बलानि  रत्नानि चित्रवस्त्रमथोत्तमम् रामाय प्रददौ राजा शुभान्याभरणानि 
Verse 4
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् मातुलस्याश्वपतिनः प्रहितं तन्महाधनम्
Verse 5
प्रत्युद्गम्य  काकुत्स्थः क्रोशमात्रं सहानुजः गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम्
Verse 6
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य  पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य  उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे
Verse 7
किमाह मातुलो वाक्यं यदर्थं भगवानिह प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः
Verse 8
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे
Verse 9
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते
Verse 10
अयं गन्धर्वविषयः फलमूलोपशोभितः सिन्धोरुभयतः पार्श्वे देशः परमशोभनः
Verse 11
तं  रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः
Verse 12
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् निवेशय महाबोहो स्वे पुरे सुसमाहिते
Verse 13
अन्यस्य  गतिस्तत्र देशः परमशोभनः रोचतां ते महाबाहो नाहं त्वामहितं वदे
Verse 14
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य  उवाच बाढमित्येव भरतं चान्ववैक्षत
Verse 15
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः
Verse 16
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव  मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ
Verse 17
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः
Verse 18
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य  आगमिष्यति मे भूयः सकाशमतिधार्मिकः
Verse 19
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्
Verse 20
नक्षत्रेण  सौम्येन पुरस्कृत्याङ्गिरस्सुतम् भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ
Verse 21
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ राघवानुगता दूरं दुराधर्षा सुरैरपि
Verse 22
मांसादानि  सत्त्वानि रक्षांसि सुमहान्ति  अनुजग्मुर्हि भरतं रुधिरस्य पिपासया
Verse 23
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः
Verse 24
सिंहव्याघ्रवराहाणां खेचराणां  पक्षिणाम् बहूनि वै सहस्राणि सेनाया ययुरग्रतः
Verse 25
अध्यर्धमासमुषिता पथि सेना निरामया हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्
0:000:00
Speed: