Book 7 • Chapter 99
Sarga 99
20 verses
Verse 1
रजन्यां तु प्रभातायां समानीय महामुनीन् गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह
Verse 2
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ
Verse 3
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा तस्यावसाने यज्ञस्य रामः परमदुर्मनाः
Verse 4
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् शोकेन परमायस्तो न शान्तिं मनसा ऽगमत्
Verse 5
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च
Verse 6
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः
Verse 7
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः
Verse 8
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्
Verse 9
दशवर्षसहस्राणि वाजिमेघानथाकरोत् वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान्
Verse 10
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः
Verse 11
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु
Verse 12
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ऋक्षवानररक्षांसि स्थिता रामस्य शासने
Verse 13
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा
Verse 14
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति
Verse 15
अथ दीर्घस्य कालस्य राममाता यशस्विनी पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्
Verse 16
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता
Verse 17
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च समागता महाभागाः सर्वधर्मं च लेभिरे
Verse 18
तासां रामो महादानं काले काले प्रयच्छति मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु
Verse 19
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन्
Verse 20
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा
0:000:00
Speed: