Book 7 • Chapter 98
Sarga 98
27 verses
Verse 1
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ
Verse 2
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः
Verse 3
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् क्रोधशोकसमाविष्टो रामो वचनमब्रवीत्
Verse 4
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी
Verse 5
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ततश्चापि मयानीता किं पुनर्वसुधातलात्
Verse 6
वसुधे देवि भवति सीता निर्यात्यतां मम दर्शयिष्यामि वा रोषं यथा मामवगच्छसि
Verse 7
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली कर्षता हलहस्तेन जनकेनोद्धृता पुरा
Verse 8
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे पाताले नाकपृष्ठे वा वसेयं सहितस्तया
Verse 9
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते न मे दास्यसि चेत्सीतां यथारूपां महीतले
Verse 10
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह
Verse 11
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम्
Verse 12
राम राम न सन्तापं कर्तुमर्हसि सुव्रत स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन
Verse 13
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम्
Verse 14
सीता हि विमला साध्वी तव पूर्वपरायणा नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात्
Verse 15
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत्
Verse 16
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् सर्वं विस्तरतो राम व्याख्यास्यति न संशयः
Verse 17
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम्
Verse 18
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते
Verse 19
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम्
Verse 20
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु
Verse 21
उत्तरं नाम काव्यस्य शेषमत्र महायशः तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम्
Verse 22
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् परमम् ऋषिणा वीर त्वयैव रघुनन्दन
Verse 23
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः जगाम त्रिदिवं देवो देवैः सह सबान्धवैः
Verse 24
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे
Verse 25
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत्
Verse 26
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम्
Verse 27
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ तं जनौघं विसृज्याथ पर्णशालामुपागमत् तामेव शोचतः सीतां सा व्यतीयाय शर्वरी
0:000:00
Speed: