🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 7 • Chapter 97

Sarga 97

27 verses

Verse 1
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम्
Verse 2
एवमेतन्महाभाग यथा वदसि धर्मवित् प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः
Verse 3
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता लोकापवादो बलवान्येन त्यक्ता हि मैथिली
Verse 4
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति
Verse 5
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे
Verse 6
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः
Verse 7
पितामहं पुरस्कृत्य सर्व एव समागताः
Verse 8
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः गन्धर्वाप्सरसश्चैव सर्व एव समागताः
Verse 9
साध्याश्च विश्वेदेवाश्च सर्वे  परमर्षयः नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः सीताशपथसम्भ्रान्ताः सर्व एव समागताः
Verse 10
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः
Verse 11
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे
Verse 12
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः
Verse 13
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा
Verse 14
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी
Verse 15
यथा ऽहं राघवादन्यं मनसापि  चिन्तये तथा मे माधवी देवी विवरं दातुमर्हति
Verse 16
मनसा कर्मणा वाचा यथा रामं समर्चये तथा मे माधवी देवी विवरं दातुमर्हति
Verse 17
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं   तथा मे माधवी देवी विवरं दातुमर्हति
Verse 18
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्
Verse 19
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः
Verse 20
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् स्वागतेनाभिनन्द्यैनामासने चोपवेशयत्
Verse 21
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत्
Verse 22
साधुकारश्च सुमहान्देवानां सहसोत्थितः साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम्
Verse 23
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम्
Verse 24
यज्ञवाटगताश्चापि मुनयः सर्व एव ते राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे
Verse 25
अन्तरिक्षे  भूमौ  सर्वे स्थावरजङ्गमाः दानवाश्च महाकायाः पाताले पन्नगाधिपाः
Verse 26
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः
Verse 27
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत्
0:000:00
Speed: