Book 7 • Chapter 96
Sarga 96
24 verses
Verse 1
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः
Verse 2
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः
Verse 3
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः
Verse 4
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः
Verse 5
नारदः पर्वतश्चैव गौतमश्च महायशाः कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः
Verse 6
एते चान्ये च बहवो मुनयः संशितव्रताः कौतूहलसमाविष्टाः सर्व एव समागताः
Verse 7
राक्षसाश्च महावीर्या वानराश्च महाबलाः सर्व एव समाजग्मुर्महात्मानः कुतूहलात्
Verse 8
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः
Verse 9
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे सीताशपथवीक्षार्थं सर्व एव समागताः
Verse 10
तदा समागतं सर्वमश्मभूतमिवाचलम् श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्
Verse 11
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम्
Verse 12
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत्
Verse 13
ततो हलहलाशब्दः सर्वेषामेवमाबभौ दुःखजन्मविशालेन शोकेनाकुलितात्मनाम्
Verse 14
साधु रामेति केचित्तु साधु सीतेति चापरे उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः
Verse 15
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः सीतासहायो वाल्मीकिरिति होवाच राघवम्
Verse 16
इयं दाशरथे सीता सुव्रता धर्मचारिणी अपवादैः परित्यक्ता ममाश्रमसमीपतः
Verse 17
लोकापवादभीतस्य तव राम महाव्रत प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि
Verse 18
इमौ तु जानकीपुत्रावुभौ च यमजातकौ सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते
Verse 19
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ
Verse 20
बहुवर्षसहस्राणि तपश्चर्या मया कृता नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली
Verse 21
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् तस्याः फलमुपाश्नीयामपापा मैथिली यदि
Verse 22
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे
Verse 23
इयं शुद्धसमाचारा अपापा पतिदेवता लोकापवादभीतस्य प्रत्ययं तव दास्यति
Verse 24
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा
0:000:00
Speed: